________________
आगम (४१/१)
“ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१४१] .. "नियुक्ति: [८८] + भाष्यं [४९...] + प्रक्षेपं [३...]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||८८||
'ग्राम' इति द्वारपरामर्शः, ग्रामे प्रविष्टः सन् परितलितादिमार्गणं करोति, परितलितं-सुकुमालिकादि उच्यते, तदन्विपन् दीर्घा भिक्षाचौं करोति । उक्तमनुकूल ग्रामद्वारम् , इदानीमनुकूलसंखडीद्वारमुच्यते-'संखडी छण विरुव'त्ति संखडी-12 प्रकरणं, सा च 'क्षणे उत्सवे विविधरूपा भवति, एतदुक्तं भवति-गृहे गृहे घृतपूरादि लभ्यते, तदर्थं च दीर्घा भिक्षाचर्या | करोति । उक्तमनुकलसंखडीद्वारं, इदानीमनुकलव्यवस्थितसज्ञिद्वारमुच्यते-'सपिण'त्ति सज्ञिनः-श्रावका उच्यन्ते, तेषु मृष्टान्नार्थी दीर्घा भिक्षाचर्या करोति । उक्तमनुकूलसज्ञिद्वारम् , इदानीमनुकूलदानश्राद्धकद्वारमुच्यते-'दाणे'त्ति दानश्राद्धका उच्यन्ते, तेष्वनुकूलपथव्यवस्थितेषु प्रविष्टो मृष्टभोजनाथीं दीर्घा भिक्षाचर्या करोति । उक्तं दानश्राद्धकद्वारम् , इदानी भद्रकद्वारमुच्यते-भद्देत्ति अनुकूलपथव्यवस्थितेषु भद्रकेषु 'जेमणविगईगहण दीहत्ति मृष्टभोजनविकृतिग्रहणार्थ, दीर्घा भिक्षाचर्या करोतीति सर्वत्र योज्यमिति । तत्र प्रागिदमुक्तं-प्रचुरभक्षणात्स्वपतः सूत्रार्थपरिहानिर्भवति, अथ न स्वपिति 5 | ततः को दोष इत्यत आह___ अह जग्गइ गेलनं अस्संजयकरणजीववाघाओ । इच्छमणिच्छे मरणं गुरुआणा छडणे काया ॥८॥
अथ स्निग्धे आहारे भक्षिते जागरणं करोति, सूत्रार्थपौरुषीं करोतीत्यर्थः, ततश्च को दोष ? इत्यत आह-'गेलन्नं' ग्लानत्वं | भवति, ग्लानत्वे सति तस्य साधोर्यद्यसंयतः प्रतिजागरणं करोति इच्छति च ततः को दोषस्तदेत्यत आह-असंयतकरणे जीवव्याघातो भवति इच्छतः, अथ नेच्छति असंयतेन क्रिया क्रियमाणां ततः 'अणिच्छे मरण' अनिच्छतो मरणं भवति, न केवलमयमेव दोषः, 'गुरुआणा छडणे काया' गुरोराज्ञालोपः कृतो भवति, मृतस्य च छडणे-परित्यागे गृहस्थाः षटकाय-12
दीप अनुक्रम [१४१]
ओ०९
~ 100~