________________
आगम
(१६)
प्रत
सूत्रांक
[ १०५
- १०६ ]
दीप
अनुक्रम
[१९६
-१९७]
“सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः)
प्राभृतप्राभृत [-]
मूलं [ १०५ - १०६ ]
. आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
प्राभृत [२०], मुनि दीपरत्नसागरेण संकलित..
ता एरसिए णं चंदिमसूरिया जोइसिंदा जोइसरायाणो कामभोगे पञ्चशुभवमाणा विहरंति ( सूत्रं १०६ ) ॥ 'ता कहं ते' इत्यादि, ता इति पूर्ववत् कथं केन प्रकारेण केनान्यर्थेनेति भावः चन्द्रः शशीत्याख्यात इति वदेत् ? भगवानाह - 'ता चंदस्स णमित्यादि, ता इति पूर्ववत्, चन्द्रस्य ज्योतिषेन्द्रस्य ज्योतिपराजस्य मृगाङ्के मृगचिहे विमाने अधिकरणभूते कान्ताः-कमनीयरूपा देवाः कान्ता देव्यः कान्तानि च आसनशयनस्तम्भभाण्डमात्रोपकरणानि आत्मनाऽवि चन्द्रो देवो ज्योतिषेन्द्रो ज्योतिपराजः सौम्यः- अरौद्राकारः कान्तः कान्तिमान् सुभगः सौभाग्ययुक्तत्यात् वल्लभो जनस्य प्रियं-प्रेमकारि दर्शनं यस्य स प्रियदर्शनः शोभनमतिशायि रूपं अङ्गप्रत्यङ्गावयवसन्निवेशविशेषो यस्य स सुरूपः, ता-ततः एवं खलु अनेन कारणेन चन्द्रः शशी चन्द्रः शशीत्याख्यात इति वदेत्, किमुक्तं भवतिः सर्वात्मना कमनीयत्वलक्षणमन्वर्थमाश्रित्य चन्द्रः शशीति व्यपदिश्यते, कथा व्युत्पस्येति, उच्यते, इह 'शश कान्ता' विति धातुरदन्तश्चौरादिकोऽस्ति, चुरादयो हि धातवोऽपरिमिता न तेषामियत्ताऽस्ति, केवलं यथालक्ष्यमनुसर्त्तव्या', अत एव चन्द्रगोमी चुरादिगणस्यापरिमिततया परमार्थतो यथाउक्ष्यमनुसरणमवगम्य द्वित्रानेव चुरादिधातून् पठितवान् न भूयसः, ततो णिगन्तस्य शशनं शश इति घञ्प्रत्यये शश इति भवति, शशोऽस्यास्तीति शशी, स्वविमानवास्तव्य देव देवी शयनासनादिभिः सह कमनीयकान्तिकलित इति भावः, अन्ये तु व्याचक्षते शशीति सह श्रिया वर्त्तते इति सश्रीः प्राकृतत्वाच्च शशीतिरूपं, 'ता कहं ते' इत्यादि, ता इति पूर्ववत् कथं?--केन प्रकारेण केनान्यर्थेनेति भावः सूर आदित्यः २ इत्याख्यायते इति वदेत् ?, भगवानाह 'ता सूराइया' इत्यादि, सूर आदिः प्रथमो येषां ते सूरादिकाः, के इत्याह- 'समयाइति वा' समया - अहोरात्रादिकालस्य
For Parts Only
~588~
wor