________________
आगम
(१६)
प्रत
सूत्रांक [१०० ]
+
गाथा:
दीप
अनुक्रम
[१२९
-१९२]
“सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः)
प्राभृतप्राभृत [-]
मूलं [ १००] + गाथा: . आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
प्राभृत [१९], मुनि दीपरत्नसागरेण संकलित..
कृत्य परिषद्वंति - पर्यटन्ति । पुनः प्रश्नयति- 'तातेसि ण'मित्यादि, ता इति पूर्ववत् तेषां ज्योतिष्काणां देवानां | यदा इन्द्रव्यवते तदा ते देवा इदानीं - इन्द्रविरहकाले कथं प्रकुर्वन्ति ?, भगवानाह 'ता' इत्यादि, ता इति पूर्ववत्, चत्वारः पञ्च वा सामानिका देवाः समुदितीभूय तत् शून्यमिन्द्रस्थानमुपसम्पद्य विहरन्ति तदिन्द्रस्थानं परिपालयन्ति, सञ्जातौ शुक्लस्थानादिकं पञ्चकुलवत्, कियन्तं कालं यावतदिन्द्रस्थानं परिपालयन्तीति चेदत आह-यावदन्यस्तत्रेन्द्र उपपन्नो भवति, 'ता इंदठाणे णमित्यादि, ता इति पूर्ववत् इन्द्रस्थानं कियत्कालमुपपातेन विरहितं प्रज्ञतं ?, भगवा★ नाह- 'ता' इत्यादि, जघन्येन एकं समयं यावत् उत्कर्षेण षण्मासान् । 'ता बहिया णमित्यादि प्रश्नसूत्रमिदं प्राग्वत् व्याख्येयं भगवानाह सा ते ण'मित्यादि, ता इति पूर्ववत् ते मनुष्यक्षेत्राद्वहिर्वर्त्तिनश्चन्द्रादयो देवा नोर्ध्वोपपन्ना नापि कल्पोपपन्नाः किन्तु विमानोपपन्नास्तथा नो चारोपपन्ना:- चारयुक्ताः किन्तु चारस्थितिकाः, अत एव नो गतिरतयो नापि गतिसमापनकाः, पक्केष्टका संस्थान संस्थितैर्योजन रात साहस्रिकैरातपक्षेत्रः, यथा पक्का इष्टका आयामतो दीर्घा भवति विस्तरतस्तु स्तोका चतुरस्रा च तथा तेपामपि मनुष्यक्षेत्राद्वहिर्व्यवस्थितानां चन्द्रसूर्याणामातपक्षेत्र व्यायामतो अनेकयोजनशतसहस्रप्रमाणानि विस्तरत एकयोजनशतसहस्राणि चतुरस्राणि चेति, तैरित्थंभूतैरातपक्षेत्रैः साहस्रिकाभिः - अनेकसहस्रसङ्ख्याभिर्वाद्याभिः पर्षद्भिः, अत्रापि बहुवचनं व्यक्त्यपेक्षया, 'मध्ये' त्यादि पूर्ववत् दिवि भवान् दिव्यान् भोगभो गान् भोगान् शब्दादीन् भोगान् भुञ्जाना विहरन्ति कथंभूता इत्याह- शुभलेश्याः, एतच्च विशेषणं चन्द्रमसः प्रति, तेन नातिशीततेजसः किन्तु सुखोत्पादहेतुपरमलेश्याका इत्यर्थः, मन्दलेश्याः, एतच्च विशेषणं सूर्यान् प्रति, तथा च एत
For Pale Only
~ 568~