________________
आगम
(१६)
ཎྜཎྞམོཝཱ ཝཱ + བྷུལླཱཡྻ
-१९२]
“सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः)
प्राभृतप्राभृत [-]
मूलं [ १००] + गाथा:
. आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीत वृत्तिः
प्राभृत [१९],
मुनि दीपरत्नसागरेण संकलित..
सूर्यप्रज्ञ. शिवृत्तिः
( मल० )
॥२७९॥
१९ प्राभृते
दि चन्द्रादीनामूर्ध्वो त्पन्नत्वादि
सू १००
| यागसूत्रं - 'सुकपक्खरस दिवसे २ चंदो बावहिं भागे परिवहइति तदप्येवमेव व्याख्येयं सम्प्रदायवशाद्धि सूत्रं व्याख्येयं न स्वमनीपिकवा, सम्प्रदायश्च यथोक्तस्वरूप इति, तत्र शुक्लपक्षस्य दिवसे यत् यस्मात्कारणात् चन्द्रो द्वापटि ४ चन्द्रवृद्धया १२ भागान्-द्वाषष्टिभागसत्कान् चतुरश्चतुरो भागान् यावत्परिवर्द्धते, 'कालेन' कृष्णपक्षेन पुनर्दिवसे दिवसे तानेव द्वापष्टिभागसत्कान् चतुरश्चतुरो भागान् क्षपयति- परिहापयति । एतदेव व्याचष्टे - 'पन्नंरस' इत्यादि, कृष्णपक्षे प्रतिदि वसं राहुविमानं स्वकीयेन पञ्चदशेन भागेन चन्द्रविमानं पञ्चदशमेव भागं वृणोति-आच्छादयति, शुक्लपक्षे तु पुनस्तमेव 8 प्रतिदिवसं पञ्चदशभागं आत्मीयेन पञ्चदशभागेन व्यतिक्रामति मुञ्चति, किमुक्तं भवति ?-कृष्णपक्षे प्रतिपद आरभ्यात्मीयेन पश्चदशेन भागेन प्रतिदिवसमेकैकं पञ्चदशभागमुपरितनभागादारभ्यावृणोति, शुक्लपक्षे तु प्रतिपद आरभ्य तेनैव क्रमेण प्रतिदिवसमेकैकं पञ्चदशभागं प्रकटीकरोति सेन जगति चन्द्रमण्डलवृद्धिहानी प्रतिभासेते स्वरूपतः पुनश्चन्द्रमण्डलमवस्थितमेव । तथा चाह— 'एवं बहु' इत्यादि, एवं- राहुविमानेन प्रतिदिवस क्रमेणानावरणकरणतो वर्द्धते वर्द्धमानः प्रतिभासते चन्द्रः एवं- राहुविमानेन प्रतिदिवस क्रमेणावरणकरणतः प्रतिहानिः - प्रतिहानिप्रतिभासो भवति चन्द्रस्य विषये, एतेनैवानुभावेन कारणेन एकः पक्षः कालः कृष्णो भवति, यत्र चन्द्रस्य परिहानिः प्रतिभासते, एकस्तु ज्योत्स्नाः-शुक्लो यत्र चन्द्रविषयो वृद्धिप्रतिभासः । 'अंतो' इत्यादि, अन्तः- मध्ये मनुष्यक्षेत्रे – मनुष्यस्य क्षेत्रस्य पञ्चविधा ज्योतिष्काः, तद्यथा - चन्द्राः सूर्या ग्रहगणाश्चशन्दान्नक्षत्राणि तारकाश्च भवन्ति, चारोपगाः- चारयुक्ताः, 'तेण पर' मित्यादि, तेनेति प्राकृतत्वात् पञ्चम्यर्थे तृतीया, ततो मनुष्यक्षेत्रात् परं यानि शेषाणि चन्द्रादित्य
For Parts Only
~563~
॥२७९||
wor