________________
आगम
(१६)
प्रत
सूत्रांक [१०० ]
+
गाथा:
दीप
अनुक्रम
[१२९
-१९२]
“सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः)
प्राभृतप्राभृत [-]
मूलं [ १००] + गाथा: . आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
प्राभृत [१९], मुनि दीपरत्नसागरेण संकलित..
प्रियविप्रयोगजननेन वा कलहसंपादनतो वा दुःखमुत्पादयन्ति यदा च येषां जन्मनक्षत्राद्यनुकूलः चन्द्रादीनां चारस्तदा तेषां प्रायो यानि शुभवेद्यानि कर्माणि तानि तां तथाविधां विपाकसामग्रीमधिगम्य विपाकं प्रतिपद्यन्ते, प्रपन्नविपाकानि च तानि शरीरनीरोगता सम्पादनतो धनवृद्धिकरणेन वा वैरोपशमनतः प्रियसम्प्रयोग सम्पादनतो वा यदिवा प्रारब्धाभीष्टमयोजननिष्पत्तिकरणतः सुखमुपजनयन्ति, अत एव महीयांसः परमविवेकिनोऽल्पमपि प्रयोजनं शुभतिथिनक्षत्रादावारभन्ते न तु यथाकथंचन, अत एव जिनानामप्याज्ञा पत्राजनादिकमधिकृत्येत्थमवर्त्तिष्ट यथा शुभक्षेत्रे शुभां दिशमभिमुखीकृत्य शुभे तिथिनक्षत्रमुहूर्त्तादौ प्रत्राजनब्रतारोपणादि कर्त्तव्यं, नान्यथा, तथा चोकं पञ्चवस्तुके - " एसा जिणाण| माणा खित्ताईया य कम्मुणो भणिया । उदद्याइकारणं जं तम्हा सवस्थ जइयबं ॥ १ ॥ " अस्या अक्षरगमनिका - एपा जिनानामाज्ञा शुभे क्षेत्रे शुभां दिशमभिमुखीकृत्य शुभे तिथिनक्षत्रमुहूर्त्तादौ प्रत्राजननतारोपणादि कर्त्तव्यं नान्यथा, अपिच क्षेत्रादयोऽपि कर्मणामुदयादिकारणं भगवद्भिरुक्ताः, ततोऽशुभद्रव्यक्षेत्रादिसामग्री प्राप्य कदाचिदशुभबेद्यानि कर्माणि विपाकं गत्वोदयमासादयेयुः, तदुदये च गृहीतव्रत भङ्गादिदोषप्रसङ्गः, शुभद्र व्यक्षेत्रादिसामच्यां तु प्रायो नाशुभकर्म्मविपाकसम्भव इति निर्विघ्नं सामायिकपरिपालनादि, तस्मादवश्यं छद्मस्थेन सर्वत्र शुभक्षेत्रादौ यतितव्यं । ये तु भगवन्तोऽतिशयिनस्ते अतिशयवलादेव सविघ्नं निर्विघ्नं वा सम्यगधिगच्छन्ति ते न शुभतिथिमुहर्त्तादिकमपेक्षते इति न तन्मार्गानुसरणं छद्मस्थानां न्याय्यं तेन ये परममुनिपर्युपासितप्रवचनविडम्त्रका अपरिमलितजिनशासनोपन| पद्भूतशास्त्रा गुरुपरम्परायातनिरवद्यविशद कालोचितसामाचारीप्रतिपन्थिनः स्वमतिकल्पितसामाचारीका अभिदधति
For Parts Only
~558~