SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [५] दीप अनुक्रम [११३] प्राभृत [१५], प्राभृतप्राभृत [-], मूलं [ ८५] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः सूर्यज्ञ शिवृत्तिः ( मल० “सूर्यप्रज्ञप्ति” - उपांगसूत्र -५ (मूलं + वृत्तिः) - ॥२५२ ॥ शतानि चतुरशीत्यधिकानि मण्डलानां चन्द्रस्य लभ्यन्ते तत एकेन सूर्यमासेन किं लभामहे ?, राशित्रयस्थापना ६० । ८८४ । १ । अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातः स तावानेव तस्य पष्ट्या भागहरणं लब्धानि चतुर्दश मण्डलानि शेपास्तिष्ठन्ति चतुश्चत्वारिंशत् ४४ ततच्छेद्यच्छेदकराश्योश्चतुष्केनापवर्त्तना जात उपरितनो शशिरेकादशरूपोऽधस्तनः पश्चदशरूपः लब्धाः पञ्चदशमण्डलस्य एकादशभागाः १४ । ये । 'ता आइक्षेण मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगर्म, भगवानाह - पञ्चदश चतुर्भागाधिकानि मण्डलानि चरति, तथाहि--यदि पट्या सूर्यमासनय शतानि पञ्चदशोत्तराणि मण्डलानां सूर्यस्य लभ्यन्ते तत एकेन मासेन किं लभामहे ?, राशित्रयस्थापना ६० । ९१५ । १ । अत्रान्त्येन राशिना एककलक्षणेन मध्यराशेर्गुणनं जातः स तावानेव तस्य पष्ट्या भागहरणं लब्धानि पञ्चदश मण्डलानि षोडशस्य च पष्टिभागविभक्तस्य पञ्चदशभागात्मकश्चतुर्भागः । १५। है । 'ता आइचेण' मित्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगमम् भगवानाह - 'ता पण्णरसे'त्यादि, पञ्चदश मण्डलानि चतुर्भागाधिकानि पञ्चत्रिंशतं विंशत्यधिकशतभागान् मण्डलस्य चरति, किमुक्तं भवति ! - पोडशस्य च मण्डलस्य पञ्चत्रिंशतं विंशत्यधिकशतनागान् चरति, तथाहि - यदि विं शेन सूर्यमासातेनाष्टादश शतानि पञ्चत्रिंशदधिकानि मण्डलानां नक्षत्रस्य लभ्यन्ते तत एकेन सूर्यमासेन किं लभ्यते ?, राशित्रयस्थापना । १२० । १८३५ । १ । अत्रान्त्येन राशिना मध्यराशिर्गुणितो जातस्तावानेव तस्य विंशत्यधिकेन शतेन भागहरणं लब्धानि पञ्चददा मण्डलानि पञ्चत्रिंशच्च विंशत्यधिकशतभागाः षोडशस्य १५ । १२ अधुना अभिव वर्द्धितमासमधिकृत्य चन्द्रादीनां मण्डलानि निरूपयन्नाह - 'ता अभिवह्निएण' मित्यादि, ता इति पूर्ववत् अभिवर्द्धि For Parts Only ~509~ १५ प्राभृते नक्षत्रादिमासैश्चन्द्रादीनां चारः सू ८५ ॥२५२॥
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy