________________
आगम
(१६)
प्रत
सूत्रांक
[ ६८ ]
दीप
अनुक्रम
[५]
“सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः)
प्राभृतप्राभृत [२२],
मूलं [ ६८ ]
प्राभृत [१०], मुनि दीपरत्नसागरेण संकलित. आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः
द्विचत्वारिंशदधिकैर्मुहूर्तानामेकस्य च मुहूर्त्तस्य पट्चत्वारिंशता द्वाषष्टिभागैरश्लेषादीनि उत्तराषाढा पर्यन्तानि नक्षत्राणि शुद्धानि स्थितानि पश्चात्रीणि शतानि पञ्चाशदधिकानि मुहूर्त्तानामेकस्य च मुहूर्त्तस्य चतुर्द्दश द्वापष्टिभागा एकस्य च द्वापहि भागस्य द्वादश सप्तषष्टिभागाः ३५० | १४ | १२ ततखिभिः शतैर्नवोत्तरमुहर्त्तानामेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीनि रोहिणी पर्यन्तानि शुद्धानि, स्थिताः पञ्चाच्चत्वारिंशन्मुहूर्चाः एकस्य च मुहूर्त्तस्य एकपञ्चाशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रयोदश सष्ठपष्टिभागाः ४० | ५९ | १३ | तक त्रिशता मुहूर्त्तेर्मृगशिरः शुद्धः स्थिताः पश्चाद्दश मुहूर्त्ताः शेषं तथैव १० । ५१ । १३ । तत आगतं आर्द्रा नक्षत्रस्य चन्द्रेण सह संयुक्तस्य चतुर्षु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य दशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुष्पञ्चाशति सष्ठपठिमागेषु ४। १० । ५४ । शेषेषु द्वादशी अमावास्या परिसमाप्तिमियर्त्ति, सम्प्रति सूर्यविषये प्रश्नमाह - 'तं समयं चणमित्यादि, सुगमं, भगवानाह - 'ता अाए चेव' आर्द्रयैव युक्तः सूर्योऽपि द्वादशीममावास्यां परिसमापयति, शेषपाठविषयेऽतिदेशमाह-'अदाए जहा चन्द्रस्स' यथा चन्द्रविषये आर्द्रायाः शेष उक्तस्तथा सूर्यविषयेऽपि वक्तव्यः, स चैवम्- 'अाए चतारि मुहुत्ता दस य बावट्टिभागा मुहुत्तस्स बावट्टिभागं च सत्तट्ठिहा छेत्ता चउप्पण्णं चुण्णिया भागा सेसा' इति । चर| मद्वाषष्टितमामावास्याविषयं प्रश्नमाह – 'ता एएसि णमित्यादि, सुगमं, भगवानाह - 'ता पुणवसुणा' इत्यादि, ता इति पूर्ववत्, पुनर्वसुना युक्तश्चन्द्रश्चरमां द्वाषष्टितमाममावास्यां परिसमापयति, तदानीं च चरमद्वाषष्टितमामाचास्यापरिसमाप्तिवेलायां पुनर्वसु नक्षत्रस्य द्वाविंशतिर्मुहूर्त्ताः षट्चत्वारिंशच्च द्वाषष्टिभागा मुहूर्त्तस्य शेषाः, तथाहि सौ एक
Eucation Internationa
For Pasta Use Only
~390~