________________
आगम
(१६)
प्रत
सूत्रांक
[ ५८ ]
॥१-५॥
दीप
अनुक्रम [७९-८५]
प्राभृत [१०],
मुनि दीपरत्नसागरेण संकलित..
सूर्यप्रश
तिवृत्तिः
( मल० )
॥ १७२ ॥
“सूर्यप्रज्ञप्ति” - उपांगसूत्र - ५ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [२०],
मूलं [ ५८ ] + गाथा (१-५) आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः
१०
मन्त्र भावना - यस्मिन् संवत्सरे नक्षत्रैर्मास सदृशनाम कैस्तस्य तस्य ऋतोः पर्यन्तवतीं मासः परिसमाप्यते, तेषु च तां ४ तां पौर्णमासी परिसमापयत्सु तथा तथा पौर्णमास्या सह ऋतवोऽपि निदाघादिकाः परिसमाप्तिमुपयन्ति, यथा ४२ २० प्राभूतउत्तराषाढा नक्षत्रं आषाढी पौर्णमासी परिसमापयति, तया आषाढपौर्णमास्या सह निदाघोऽपि ऋतुः परिसमाप्तिमुपैति, स नक्षत्रसंवत्सरः, नक्षत्रानुरोधेन तस्य तथा तथा परिणममानत्वात् एतेन च लक्षणद्वयमभिहितं द्रष्टव्यं, तथा न विद्य तेऽतिशयेन उष्णं- उष्णरूपः परितापो यस्मिन् स नात्युष्णः तथा न विद्यतेऽतिशयेन शीतं यत्र स नातिशीतो बहु उदकं यत्र स बहूदकः एवंरूपैः पञ्चभिः समप्रैर्लक्षणैरुपेतो भवति नक्षत्रसंवत्सरः । सम्प्रति चन्द्रसंवत्सर लक्षणमाह - "ससिसम - गपुण्णमासिं जोएंता विसमचारिनक्खत्ता । कहुओ बहुउदओया तमाहु संक्च्छरं चंदं ॥ १ ॥ यस्मिन् संवत्सरे नक्षत्राणि विषमचारीणि मासविसदृशनामानीत्यर्थः, शशिना समकं योगमुपगतानि तां तां पौर्णमासीं युञ्जन्ति - परिसमापयन्ति, | यश्च कटुकः- शीतातपरोगादिदोषबहुलतया परिणामदारुणो बहूदकश्च तमाहुर्महर्षयः संवत्सरं चान्द्रं चन्द्रसम्बन्धिनः चन्द्रानुरोधतस्तत्र मासानां परिसमाप्तिभावान माससदृशनामनक्षत्रानुरोधतः । सम्प्रति कर्म्मसंवत्सर लक्षणमाह-- “विसमं पवालिणो परिणमंति अणुऊसु दिति पुप्फफलं । वासं न सम्म वासह तमाहु संवच्छरं कम्मं ॥ १ ॥” यस्मिन् संबत्सरे वनस्पतयो विषमं विषमकालं 'प्रवालिनः परिणमन्ति' प्रवाल:- पलवारस्तद्युक्ततया परिणमन्ति तथा अनूतुष्वपि - स्वस्वऋत्वभावेऽपि पुष्पं फलं च ददति-प्रयच्छन्ति, तथा वर्षे पानीयं न सम्यक् यस्मिन् संवत्सरे मेघो वर्षति तमाहुर्महर्षयः संवत्सरं कम्मं - कर्म्मसंवत्सरमित्यर्थः । अधुना सूर्यसंवत्सरलक्षणमाह-- “ पुढविदगाणं च रसं पुष्कफलाणं च देश
Educatin internation
For PenalPa Lise Only
~ 349~
लक्षणशनैश्वरसंवत्स सू. ५८
॥ १७२ ॥