________________
आगम
(१६)
प्रत
सूत्रांक
[ ५६ ]
दीप
अनुक्रम [७७]
“सूर्यप्रज्ञप्ति” - उपांगसूत्र -५ (मूलं + वृत्तिः)
-
प्राभृत [१०],
प्राभृतप्राभृत [२०],
मूलं [ ५६ ]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः
पर्वणा किं लभामहे ?, राशित्रयस्थापना - १२४ । ५ । १ । अत्रान्त्येन राशिना मध्यराशिर्गुण्यते, जातः स तावानेव, 'एकेन गुणितं तदेव भवतीति वचनात् ततः चतुर्विंशत्यधिकेन पर्वशतेन भागो हियते, तत्रोपरितनराशेः स्तोकत्वाद् भागो न लभ्यते, लब्धा एकस्य सूर्यनक्षत्रपर्यायस्य पश्च चतुर्विंशत्यधिकशतभागाः, तत्र नक्षत्राणि कुर्म्म इत्यष्टादशभिः | शतैः त्रिंशदधिकैः सप्तषष्टिभागैः पञ्च गुणयिष्याम इति गुणकारच्छेदराश्योर र्द्धनापवर्त्तना, जातो गुणकारराशिर्नव शतानि पञ्चदशोत्तराणि ९१५, छेदराशिद्वषष्टिः ६२, तत्र नवभिः शतैः पञ्चदशोत्तरैः पश्च गुण्यन्ते, जातानि पञ्चचत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि ४५७५, एतानि मुहूर्तानयनार्थं त्रिंशता गुण्यन्ते, जातमेकं लक्षं सप्तत्रिंशत्सहस्राणि द्वे शते पञ्चाशदधिके १३७२५०, छेदराशिश्च द्वाषष्टिरूपः सप्तषष्ट्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि ४१५४, तैर्भागो हियते लब्धात्रयस्त्रिंशन्मुहूर्त्ताः ३३, शेषं तिष्ठत्यष्टषष्ट्यधिकं शतं १६८, एतद् द्वाषष्टिभागानयनार्थे द्वापष्ट्या गुणयितव्यमिति गुणकारच्छेदराश्योद्वषिष्ट्याऽपवर्त्तना, जातो गुणकारराशिरेकरूपश्छेदराशिः सप्तपष्टिरूपः, एकेन च गुणितं तदेव भवति, ततोऽष्टषष्ट्यधिकमेव शतं जातं, तस्य सप्तपच्या भांगो हियते, लब्धौ द्वौ द्वाषष्टिभागौ, एकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशत्सप्तषष्टिभागा इति । 'इच्छापत्रे' त्यादि इच्छाविषयं यत्पर्व - पर्वसङ्ख्यानं तदिच्छापर्व तद्गुणो-गुणकारो यस्य ध्रुवराशेस्तस्मात् किमुक्तं भवति ? - ईप्सितं यत्पर्व तत्साया गुणितात् ध्रुवराशेः पुष्यादीनां नक्षत्राणां क्रमशः क्रमेण शोधनं कुर्याद्यथा दिष्टं यथा कथितमनन्तज्ञानिभिः, कथं कथितमित्याह - 'उगवीसं चे 'त्यादि गाथा, एकोनविंशतिर्मुहूर्त्ता एकस्य च मुहूर्त्तस्य त्रिचत्वारिंशद् द्वापष्टिभागा एकस्य द्वाषष्टिभागस्य त्रयत्रिंशचूर्णिका
Education International
For Penal Use On
~ 334~