________________
आगम
(१६)
प्रत
सूत्रांक
[३८]
दीप
अनुक्रम
[४८]
प्राभृत [१०], मुनि दीपरत्नसागरेण संकलित..
सूर्यप्रज्ञतिवृत्तिः ( मल०) ५
॥११५।।
सूर्यप्रज्ञप्ति” - उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
Eaton International
प्राभृतप्राभृत [६]
मूलं [३८]
. आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीत वृत्तिः
ष्टिभागीक्रियते, ते च सप्तषष्टिरपि भागाः सप्तषष्टिभागेकमध्ये प्रक्षिप्यन्ते, जाता अष्टषष्टिः सप्तषष्टिभागास्तेभ्यः षट्षष्टिः शुद्धाः स्थित्तौ पश्चाद् द्वौ सप्तषष्टिभागी, ततस्त्रिंशता मुहूतैः श्रवणः शुद्धः स्थिताः पश्चान्मुहूर्त्ताः पविंशतिः, तत इदमागतंधनिष्ठा नक्षत्रस्य त्रिषु मुहूर्त्तेष्वेकस्य मुहूर्त्तस्य एकोनविंशतिसयेषु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चषष्टिसवेषु सप्तषष्टिभागेषु शेषेषु प्रथमा श्राविष्ठी पौर्णमासी परिसमाप्तिमेति । यदा तु द्वितीया श्राविष्ठी पौर्णमासी चिन्त्यते तदा सा युगस्यादित आरभ्य त्रयोदशी, ध्रुवराशिः ६६ । ३ । । त्रयोदशभिर्गुण्यते, जाता मुहर्त्तानामष्टौ शतानि अष्टापञ्चाशदधिकानि ८५८, एकस्य व मुहूर्त्तस्य पञ्चषष्टिद्वषष्टिभागा एकस्य च द्वाषष्टिभागस्य सत्कास्त्रयोदश सप्तषष्टिभागाः ८५८ तत्राष्टभिः शतैरे कोनविंशत्यधिकैर्मुहर्त्तानामेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य सत्कैः षट्षष्ट्या सप्तषष्टिभागैरेको नक्षत्रपर्यायः शुद्धः, ततः स्थिताः पश्चादेकोनचत्वारिंशन्मुहूर्त्ता एकस्य च मुहूर्त्तस्य चत्वारिंशद् द्वाषष्टिभागा एकस्य च द्वापष्टिभागस्य चतुर्दश सप्तषष्टिभागाः ३९ । ततो नवभिर्मुहरेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य पदूषया सप्तषष्टिभागैरभिजिन्नक्षत्रं शुद्धयति, स्थिताः पश्चात्रिंशन्मुहर्त्ताः पञ्चदश मुहूर्त्तस्य | द्वाषष्टिभागा एकस्य च द्वापष्टिभागस्य पञ्चदश सप्तषष्टिभागाः ३० । तेभ्यस्त्रिंशता श्रवणः शुद्धः आगतं एकोनत्रिंशतिमुहूर्त्तेषु एकस्य च मुहूर्त्तस्य षट्चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य द्विपञ्चाशति सप्तषष्टिभागेषु दोषेषु धनिष्ठायां द्वितीया श्राविष्ठी पौर्णमासी परिसमाप्तिमेति । यदा तु तृतीया श्राविष्ठी पौर्णमासी चिन्त्यते तदा सा युगस्यादितः पञ्चविंशतितमेति पूर्वोक्तो ध्रुवराशिः ६६ । । पञ्चविंशत्या गुण्यते, जातानि षोडश शतानि पञ्चाशदधिकानि
For Palata Use Only
~ 235~
१० प्राभृते ६ प्राभृत. प्राभृतं पूर्णिमादि नक्षत्रं सू ३८
॥११५॥ .