________________
आगम
(१६)
प्रत
सूत्रांक
[४-७]
+
॥६-१५||
दीप
अनुक्रम [८-१७]
“सूर्यप्रज्ञप्ति” - उपांगसूत्र -५ (मूलं + वृत्तिः)
प्राभृतप्राभृत [-], मूलं [४-७] + गाथा: ( ६-१५) ...आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः
प्राभृत [१], मुनि दीपरत्नसागरेण संकलित..
लस्य द्वयोरपि सूर्ययोः प्रत्यहोरात्रमर्द्ध मण्डलविषया संस्थितिः व्यवस्था वक्तव्या २, तृतीये तव मतेन कः सूर्यः किय दपरेण सूर्येण चीर्ण क्षेत्रं प्रतिचरतीति निरूप्यं ३, चतुर्थे द्वावपि सूर्यो परस्परं कियत्परिमाणमन्तरं कृत्वा चारं चरत इति प्रतिपाद्यं ४, पञ्चमे कियत्प्रमाणं द्वीपं समुद्रं वाऽवगाह्य सूर्यश्चारं चरतीति ५, पष्ठे एकैकेन रात्रिन्दिवेन एकैकः सूर्यः कियत्प्रमाणं क्षेत्रं विकम्प्य-विमुच्य चारं चरतीति ६, सप्तमे मण्डलानां संस्थानमभिधानीयं ७, अष्टमे मण्डलानामेव विष्कम्भो - बाहल्यमिति ८ एवमर्थाधिकार समन्वितानि प्रथमे प्राभृते अष्टी प्राभृतप्राभृतानि । सम्प्रति प्रथम एव प्राभृते चतुरादिषु प्राभृतप्राभृतेषु यत्र यावत्यः प्रतिपत्तयः परमतरूपास्तत्र तावतीरभिधित्सुराह— 'छष्पंचे'त्यादि, प्रथमस्य प्राभृतस्य चतुरादिषु प्राभृतप्राभृतेषु यथाक्रममेताः प्रतिपत्तयः परमतरूपा भवन्ति, तद्यथा - चतुर्थे प्राभृतप्राभृते पटू प्रतिपत्तयः ४, पञ्चमे पच ५, षष्ठे सप्त ७, सप्तमे अष्टौ ८, अष्टमे तिस्र ३ इति ॥ सम्प्रति द्वितीये प्राभृते यदर्थाधिकारोपेतानि त्रीणि प्राभृतप्राभृतानि तान् प्रतिपादयति- 'पडिवती' त्यादि, द्वितीयस्य प्राभृतस्य प्रथमे प्राभृतप्राभृते सूर्यस्योदये अस्तमयनेषु च प्रतिपत्तयः परमतरूपाः प्रतिपाद्याः स्वमतप्रतिपत्तिश्च द्वितीये भेदघातः कर्णकला व वक्तव्या, किमुक्तं भवति ?-भेदो मण्डलस्यापान्तरालं तत्र घातो- गमनं, 'हन हिंसागत्यो' रिति वचनात् स एकेषां मतेन प्रतिपाद्यः, यथा विवक्षिते मण्डले सूर्येणापूरिते सति तदनन्तरं सूर्योऽपरमनन्तरं मण्डलं सङ्क्रामतीति, तथा कर्णः -कोटिभागः तमधिकृत्यापरेषां मतेन कला वक्तव्या, यथा विवक्षिते मण्डले द्वावपि सूर्यो प्रथमक्षणे प्रविष्टौ सन्तौ पूर्वापरकोटिद्वयं उक्षीकृत्य बुद्ध्या परिपूर्ण यथावस्थितं मण्डलं विवक्षित्वा ततः परमण्डलस्य कर्ण - कोटिभागरूपमभिसमीक्ष्य ततः
Education Internationa
For Parts Only
~20~
ar