________________
आगम
(१६)
प्रत
सूत्रांक
[३१]
दीप
अनुक्रम [४१]
प्राभृत [९] मुनि दीपरत्नसागरेण संकलित.
*सूर्यप्रज्ञसिवृत्तिः ( मल० )
॥ ९१ ॥
सूर्यप्रज्ञप्ति" - उपांगसूत्र - ५ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [-]
मूलं [३१]
आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः
प्राप्ता चत्कर्षिका अष्टादशमुहूर्त्ता रात्रिर्भवति, जघन्यो द्वादशमुहूर्ती दिवसः तस्मिंश्च दिवसे सूर्यो द्विपौरुषी-पुरुषद्वयप्रमाणां छायां निर्वर्त्तयति, तद्यथा-उद्गमनमुहूर्त्ते भस्तमयमुहूर्त्ते च स च तदा द्विपौरुष छायां निर्वर्त्तयति, लेश्यामभिवर्द्धयन नो चैष निर्वेष्टयन् अस्य वाक्यस्य भावार्थः प्राग्वद्भावनीयः । तथा तत्र तेषां द्वयानां मध्ये ये वादिन एवमाहुःअस्ति स दिवसो यस्मिन् दिवसे स सूर्यो द्विपौरुष छायां निर्वर्त्तयति अस्ति स दिवसो यस्मिन् दिवसे सूर्यो न कांचिदपि पौरुषीं छायां निर्वर्तयति त एवं स्वमतविभावनार्थमाचक्षते- 'ता जया ण'मित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरमण्डलमुपसङ्गम्य चारं चरति तदा उत्तमकाष्ठाप्राप्त उत्कर्षकोऽष्टादशमुत्त दिवसो भवति, जघन्या द्वादशमुहर्त्ता रात्रिः, तस्मिंश्च दिवसे सूर्यो द्विपौरुषीं छायां निर्वर्त्तयति, तद्यथा - उद्गमन मुहूर्त्तेऽस्तमयमुहूर्त्ते च स च तदानीं द्विपौरुषीं छायां निर्वर्त्तयति लेश्यामभिवर्द्धयन् नो चैव निर्वेष्टयन्, 'ता जया ण'मित्यादि, तत्र यदा णमिति वाक्यालङ्कारे सूर्यः सर्वबाह्यं मण्डलमुपसङ्क्रम्य चारं चरति तदा उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहूर्त्ता रात्रिः, जघन्यो द्वादशमुहूर्त्तप्रमाणो दिवसस्तस्मिंश्च दिवसे उद्गमनमुंहर्त्तेऽस्तमयमुहूर्त्ते च सूर्यो न काश्चिदपि पौरुषीं छायां निर्वर्त्तयति, 'नो चेव ण'मित्यादि, न च-नैव तदानीं सूर्यो लेश्यामभिवर्द्धयन् भवति निर्वेष्टयन् वा, अभिवर्द्ध[य]ने अधिकाधिकतराया निर्वेष्ट [य]ने हीनहीनतरायाश्छायायाः सम्भवप्रसङ्गात् । तदेवं परतीर्थिकप्रतिपत्तिद्वयं श्रुत्वा भगवान् गौतमः स्वमतं पृच्छति'ता कइकट्ठ'मित्यादि, यद्येवं परतीर्थिकानां प्रतिपत्ती 'ता' तर्हि भगवान् स्वमतेन त्वया कतिकाष्ठां किंप्रमाणां सूर्यः पौरुपीं छायां निर्वर्त्तयन् आख्यात इति वदेत् १ तत्र भगवान स्वमतेन देशविभागतः पौरुषीं छायां तथा तथा अनिय
Eucation International
For Parts Only
~ 199~
९ प्राभृते पौरुषीछा
या सू ३१
॥ ९१ ॥
wor