________________
आगम
(१६)
प्रत
सूत्रांक
[३१]
दीप
अनुक्रम
[४१]
प्राभृत [९] मुनि दीपरत्नसागरेण संकलित..
सूर्यप्रज्ञप्ति” - उपांगसूत्र - ५ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [-]
मूलं [३१]
आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः
'ता कड़क ते इत्यादि, ता इति पूर्ववत् कतिकाष्ठां किंप्रमाणां भगवन् ! त्वया सूर्यः पौरुषीच्छायां निर्वर्त्तयन्नाख्यात इति वदेत् ?, एवमुक्ते भगवान् प्रथमतो लेश्यास्वरूपविषये यावन्त्यः परतीर्थिकानां प्रतिपत्तयस्तावती रुपदर्शयति- 'तत्थ खलु' इत्यादि, तत्र तस्यां पौरुष्यां छायायां विषये लेश्यामधिकृत्य खल्विमाः पञ्चविंशतिः प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-तत्र तेषां पञ्चविंशतेः परतीर्थिकानां मध्ये एके एवमाहुः-ता इति पूर्ववत्, अनुसमयमेव-प्रतिक्षणमेव सूर्य: पौरुपीछायां, इह लेश्यावशतः पौरुषीछाया भवतीति ततः कारणे कार्योपचारात् पौरुपीडायेति लेश्या द्रष्टव्या, तां निर्वर्त्तयति निर्वर्त्तयन्नाख्यात इति वदेत् किमुक्तं भवति ? - प्रतिक्षणमन्यामन्यां सूर्यो लेश्यां निर्वर्त्तयन् आख्यात इति वदेत्, अत्रोपसंहारः - 'एगे एवमाहंसु, 'एवमित्यादि, एवं उक्तेन प्रकारेण एतेनानन्तरोदितेनाभिलापेन सूर्यपाठगमेन या एव ओजः संस्थितौ पञ्चविंशतिः प्रतिपत्तयः उक्ताः ता एव क्रमेणात्रापि नेतव्याः, तावद्यावच्चरमप्रतिपत्तिप्रतिपादकमिदं सूत्रं - एगे पुण एवमाहंसु-ता अणु-ओसप्पिणिउस्सप्पिणिमेव सूरिए इत्यादि, मध्यमास्वालापका एवं ज्ञातव्याः'एगे पुण एवमाहंसु ता अणुमुहुर्तमेव सूरिए पोरिसिच्छायं निवत्तेइ आहियत्ति वजा 'एगे एवमाहंसु' इत्यादि, तदेवं | लेश्याविषयाः परप्रतिपत्ती रूपदर्श्य सम्प्रति तद्विषयं स्वमतमाह - 'वयं पुण' इत्यादि, वयं पुनरेवं वदामः, कथमित्याह'ता सूरियस्स णमित्यादि, ता इति पूर्ववत्, सूर्यस्य णमिति वाक्यालङ्कारे उच्चत्वं लेश्यां च प्रतीत्य छायोद्देशः, किमुक्तं भवति ?-यथा सूर्य उच्चैरुच्चैस्तरामधिरोहति यथा च मध्याह्नादूर्ध्व नीचैस्तरामतिक्रामति एतदपि लौकिकव्यवहारा|पेक्षया उच्यते, लौकिका हि प्रथमतो दूरतरवर्त्तिनं सूर्य उदयमानमतिनीचैस्तरां पश्यन्ति ततः प्रत्यासन्नं प्रत्यासन्नतरं
Education International
For Parts Only
~ 196 ~