SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [२९] दीप अनुक्रम [३९] प्राभृत [८], मुनि दीपरत्नसागरेण संकलित. सूर्यप्रज्ञवृत्तिः ( मल० ) ॥ ९० ॥ सूर्यप्रज्ञप्ति” - उपांगसूत्र - ५ ( मूलं + वृत्ति:) प्राभृतप्राभृत [-] मूलं [ २९ ] आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः द्वीपे मन्दरस्य पर्वतस्य 'उत्तरदाहिणे णं'ति उत्तरतो दक्षिणतश्च अनन्तरः- अव्यवधानेन पश्चात्कृतोऽनन्तरपश्चात्कृतः तस्मिन् कालसमये वर्षाकालस्य प्रथमः समयः प्रतिपन्नो भवति, भूत इत्यर्थः इह यस्मिन् समये दक्षिणा उत्तरार्द्धे च वर्षाकालस्य प्रथमः समयो भवति तदनन्तरे अग्रेतने द्वितीये समये पूर्वपश्चिमयोर्वर्षाणां प्रथमः समयो भवतीति एतावन्मात्रोक्तावपि यस्मिन् समये पूर्वपश्चिमयोर्वर्षाकालस्य प्रथमः समयो भवति ततोऽनन्तरे पश्चाद्भाविनि समये दक्षिणोत्तरार्द्धयोर्वर्षाकालस्य प्रथमः समयो भवतीति गम्यते तत्किमर्थमस्योपादानं १, उच्यते, इह क्रमोत्क्रमाभ्यामभिहितोऽर्थः पश्चितज्ञानां शिष्याणामतिसुनिश्चितो भवति ततस्तेषामनुग्रहाय तदुक्तमित्यदोषः, 'जहा समय' इत्यादि, यथा समय उक्तः तथा आवलिका प्राणापानौ स्तोको लवो मुद्दतोऽहोरात्रः पक्षी मास ऋतुश्च प्रावृडादिरूपो वक्तव्यः, एवं च समयगतमालापकमादिं कृत्वा दश आलापका एते भवन्ति, ते च समयगतालापकरीत्या स्वयं परिभावनीयाः, तद्यथा- 'जया णं जंबुद्दीवे दीवे वासाणं पढमा आवलिया पडिवज्जइ तथा णं उत्तरद्धेवि वासाणं पढमा आवलिया पडिवजह, जया णं उत्तरहे वासाणं पढमा आवलिया पडिवज्जइ तया णं जंबुद्दीवे दीवे मंदरस्स पवयस्स पुरच्छिमपञ्चत्थिमे णं अनंतर| पुरक्खडकालसमयंसि वासाणं पढमा आवलिया पडिवज्जर, ता जया णं जंबुद्दीवे मंदरस्त पयस्स पुरच्छिमे णं वासाणं पढमा आवलिया पडिवाइ [तया णं पञ्चत्थिमे णं पढमा आवलिया पडिवज्जइ २] तथा णं जंबुद्दीवे दीवे मंदरस्स पवयस्स उत्तरदाहिणे णं अणंतरपच्छाकटकाल समयंसि वासाणं पढमा आवलिया पडिवन्ना भवइ' इदं च प्रागुक्तव्याख्यानुसारेण व्याख्येयं, नवरं 'आवलिया पडिवज्र'त्ति आवलिका परिपूर्णा भवति, शेषं तथैव एवं प्राणापानादिका अध्यालापका Education International For Park Use Only ~ 185~ ८ प्राभृते उदयसंस्थितिः सू २९ ॥ ९० ॥
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy