________________
आगम
(१६)
प्रत
सूत्रांक
[२४]
दीप
अनुक्रम [३४]
सूर्यप्रज्ञप्ति” - उपांगसूत्र - ५ ( मूलं + वृत्ति:)
प्राभृतप्राभृत [-]
मूलं [२४]
प्राभृत [३], मुनि दीपरत्नसागरेण संकलित. आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीत वृत्तिः
॥ ६४ ॥
सूर्यप्रज्ञ- 5 स्तापयन्तः प्रकाशयन्त आख्याता भगवतेति भगवान् वदेत् ?, एवं गौतमेनो के भगवानेतद्विषयपरतीर्थिकप्रतिपत्तीनां सिवृत्तिः मिथ्याभावोपदर्शनाय प्रथमतस्ता एवोपन्यस्यति - 'तत्थे'त्यादि, तत्र - चन्द्रसूर्याणां क्षेत्रावभासनविषये इमाः खलु द्वादश ( मल० ) * प्रतिपत्तयः - परतीर्थिकाभ्युपगमरूपा प्रज्ञप्ताः, तद्यथा--' तत्थे'त्यादि, तत्र तस्यां द्वादशानां परतीर्थिकानां मध्ये एकेॐ प्रथमास्तीर्थान्तरीया एवमाहुः, एक द्वीपं एकं समुद्रं चन्द्रसूर्यौ अवभासयन्तौ उद्योतयन्तौ तापयन्तौ प्रकाशयन्तौ, सूत्रे द्वित्वेऽपि बहुवचनं प्राकृतत्वात् उक्तं च- 'बहुवयणेण दुदयण' मिति, द्विवचनं चात्र तात्त्विकमवसेयं, परतीर्थिकैरेकस्य चन्द्रमस एकस्य च सूर्यस्याभ्युपगमात् सम्प्रति अस्यैव प्रथममतस्योपसंहारमाह-'एगे एवमाहंसु' एवं सर्वाण्यपि उपसंहारवाक्यानि भावनीयानि १, एके द्वितीयाः पुनरेवमाहुः- त्रीन् द्वीपान् त्रीन् समुद्रान् चन्द्रसूर्यौ यावच्छ (कश) दोपादानात् अवभासयत इत्यनेन सह पदचतुष्टयं द्रष्टव्यं तद्यथा-अवभासयत उद्योतयतस्तापयतः प्रकाशयत इति, एवमुत्तरत्रापि द्रष्टव्यं २, एके पुनस्तृतीया एवमाहु:-'अद्धवउत्थे' इति अर्द्ध चतुर्थ येषां ते अर्द्धचतुर्थाः, त्रयः परिपूर्णाश्चतुर्थस्य चार्द्धमित्यर्थः, अर्द्धचतुर्थान् द्वीपान् अर्धचतुर्थान् समुद्रान् चन्द्रसूर्याववभासयत इत्यादि प्राग्वत् ३, एके चतुर्थाः पुनरेमाहुः सप्त द्वीपान् सप्त समुद्रान् चन्द्रसूर्याववभासयतः ४, एके पुनः पञ्चमा एवमाचक्षते-दश द्वीपान् दश समुद्रान् चन्द्रसूर्याववभासयतः ५, एके पुनः षष्ठा एवमभिदधति-द्वादश द्वीपान् द्वादश समुद्रान् चन्द्रसूर्याववभासयतः ६, एके पुनः सप्तमा एवं भाषन्ते द्विचत्वारिंशतं द्वीपान् द्विचत्वारिंशतं समुद्रान् चन्द्रसूर्याववभासयतः ७, एके पुनरष्टमा एवमाहु:द्वासप्ततिं द्वीपान् द्वासप्ततिं समुद्रान् चन्द्रसूर्याववभासयतः ८, एके पुनर्नवमा एवमाहुः- द्विचत्वारिंशं द्वाचत्वारिंशद
Education Internation
For Pal Use Only
~ 133~
प्राभृतम्
॥ ६४ ॥