________________
आगम
(१६)
सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [२], -------------------- प्राभृतप्राभृत [3], ------------------ मूलं [२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [२३]
दीप
छात्परतो दृष्टिपथप्राप्तता हापयन् विनिर्गतस्तेनैव क्रमेण सर्वबाह्यान्मण्डलादाक्तनेषु मण्डलेषु दृष्टिपथप्राप्ततामभिवर्धयन् ।
प्रविशति, तत्र सर्वबाह्यमण्डलाक्तिनद्वितीयमण्डलगतात् दृष्टिपथप्राप्ततापरिमाणात् सर्वबाह्यमण्डले पञ्चाशीतियोजनानि नव षष्टिभागान योजनस्य एकं च षष्टिभागमेकषष्टिधा छित्त्वा तस्य सत्कान् पष्टिभागान् हापयति, एतच्च मागेवभावितं, ततस्तस्मात्सर्वबाह्यान्मण्डलादाक्तने द्वितीये मण्डले प्रविशन् तावद्भूयोऽपि दृष्टिपथप्राप्ततापरिमाणेऽभिवर्द्धयति ध्रुवं, ततोऽक्तिनेषु मण्डलेषु यस्मिन् २ मण्डले दृष्टिपथप्राप्ततापरिमाणं ज्ञातुमिष्यते (तत्र तत्र तृतीयमण्डलादारभ्य तत्त
न्मण्डलसङ्ग्यायां पत्रिंशद् गुण्यते, तद्यथा-तृतीयमण्डलचिन्तायामेकेन चतुर्थमण्डलचिन्तायां द्वाभ्यामेवं यावत्सर्वाभ्यन्त|सरमण्डलचिन्तायां वशीत्यधिकेन शतेन, इत्थं च गुणयित्वा यल्लभ्यते तद् ध्रुवराशेरपनीय शेषेण ध्रुवराशिना सहितं पूर्व 12
पूर्वमण्डलगतै दृष्टिपथप्राप्ततापरिमाणं तत्र २ मण्डले द्रष्टव्यं, तद्यथा-तृतीये मण्डले षट्त्रिंशत् एकेन गुण्यते, एकेन च गुणितं तदेव भवतीति जाता पत्रिंशदेव, सा ध्रुवराशेरपनीयते, जातं शेषमिदं पश्चाशीतियोजनानि नव षष्टिभागा योजनस्य एकस्य पष्टिभागस्य सत्का एकषष्टिभागाश्चतुर्विंशतिः ८५ एतेन सहितं पूर्वमण्डलगतं दृष्टिपथप्राप्तताप-12 रिमाणं एकत्रिंशत्सहस्राणि नव शतानि पोडशोत्तराणि योजनानामेकोनचत्वारिंशत्वष्टिभागा योजनस्य एकस्य पष्टिभा-18 गस्य सत्काः षष्टिरेकषष्टिभागाः ३१९१६ । इत्येवरूपं क्रियते, ततोऽधिकृते तृतीये मण्डले यथोक्तं दृष्टिपथप्राप्त-IN तापरिमाणं भवति, तच्च प्रागेवोपदर्शित, चतुर्थे मण्डले पट्त्रिंशद् द्वाभ्यां गुण्यते, गुणयित्वा ध्रुवराशेरपनीय शेपेण ध्रुवराशिना तृतीयमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं सहितं क्रियते, तत इदं तत्र मण्डले दृष्टिपथप्राप्ततापरिमाणं
अनुक्रम [३३]
BOOKS
~128~