________________
आगम
(१४)
प्रत
सूत्रांक
[२५७]
दीप
अनुक्रम
[३८२]
“जीवाजीवाभिगम” - उपांगसूत्र - ३ (मूलं + वृत्तिः)
प्रतिपत्तिः [सर्वजीव],
प्रति० प्रति० [३],
मूलं [२५७]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि प्रणीत वृत्तिः
| भाषकवत् मनोयोगरहितवाग्योगवानेव बाग्योगी द्वीन्द्रियादिः, जघन्यत एकं समय मुत्कर्षतोऽन्तर्मुहूर्त्त एतदपि सूत्रं विशिष्टवाग्द्रव्यग्रहणापेक्षमवसातयं, काययोगी वाग्योगमनोयोगविकल एकेन्द्रियादिः, जयन्यतोऽन्तर्मुहूर्त्त द्वीन्द्रियादिभ्य उद्धृत्य पृथिव्यादिष्वअन्तर्मुहूर्त्त स्थित्वा भूयः कस्यापि द्वीन्द्रियादिषु गमनात्, उत्कर्षतः प्रागुक्तस्वरूपो वनस्पतिकाल: अयोगी सिद्धः, स च सायपर्ववसितः । अन्तर चिन्तायां मनोयोगिनोऽन्तरं जघन्येनान्तर्मुहूर्त्त तत ऊर्जा भूयो विशिष्टमनोयोग्य पुलसम्भवात् उत्कर्षतो वनस्पतिकालः, तावन्तं कालं स्थित्वा भूयो मनोयोगिष्वागमनसम्भवात् एवं वाग्योगिनोऽपि जघन्यत उत्कर्षतञ्चान्तरं भावनीय, औदा-, रिककाययोगिनो जघन्यत एकं समयं, औदारिकलक्षणं कायमपेक्ष्यैतत्सूत्रं यतो द्विसामायिक्यामवान्तरालगतावेकः समयोऽन्तरं, उत्कर्षतोऽन्तर्मुहूर्त्त इदं हि सूत्रं परिपूर्णोदारिकशरीरपर्याप्तिपरिसमात्यपेक्षं तत्र विप्रहसमयादारभ्य यावदौदारिकशरीरपर्याप्तिपरिसमाप्तिस्तावदन्तर्मुहूर्त्त तत उक्तमुत्कर्षतोऽन्तर्मुहूर्त्त न चैतत्स्वमनीषिकाविजृम्भितं यत आह चूर्णिकृत् - 'कम्यजोगिस्स जह० एक्कं समयं, कहें ?, एकसामायिकविप्रगतस्य, उक्कोसं अंतरं अंतोंमुहुत्तं विग्रहसमयादारभ्य औदारिकशरीरपर्याप्तकस्य यावदेवनन्तमुहूर्त्त द्रष्टव्यमिति, सूत्राणि मूनि विचित्राभिप्रायतया दुर्लक्ष्याणीति सम्यकूसंप्रदायादवसातव्यानि, सम्प्रदायश्च यथोक्तस्वरूप इति न काचिदनुपपत्तिः, न च सूत्राभिप्रायमज्ञात्वा अनुपपत्तिरुद्भावनीया, महाशातनायोगतो महाऽनर्थप्रसक्तेः, सूत्रकृतो हि भगवन्तो महीयांसः प्रमाणीकृताश्च महीयस्तरैस्तत्कालवर्त्तिभिरन्यैर्विद्वद्भिस्ततो न तत्सूत्रेषु मनागप्यनुपपत्तिः केवलं सम्प्रदायावसाये यत्रो विधेयः ये तु सूत्राभिप्रायमज्ञात्वा यथा कथञ्चिदनुपपत्तिमुद्भावयन्ते ते महतो महीयस आशावयन्तीति दीर्घतर संसारभाजः, आह च टीकाकार:- "एवं विचित्राणि सूत्राणि सम्यक्संप्रदायादव सेयानीत्यविज्ञाय तदभिप्रायं नानुपपत्तिचोदना कार्या, महाशा
For P&Palle Cinly
~902~