________________
आगम
(१४)
प्रत
सूत्रांक
[२०१
-२०४]
दीप
अनुक्रम
[३१८
-३२१]
“जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:)
प्रतिपत्तिः [३],
उद्देशकः [(ज्योतिष्क)].
मूलं [२०१-२०४]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
०६५
भिरप्रमहिषीभिः सपरिवाराभिस्तिभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः षोडशभिरा सरक्षकदेव सहसैरन्यैश्च बहुभिज्योतिषैर्देवैर्देवीभिश्च सार्द्ध संपरिवृतः 'महयाहयेत्यादि पूर्ववत् यावद्दिव्यान् भोगभोगान् भुखानो विहर्तुमिति, न पुनः 'मैथुनप्रत्ययं' मैथुननिमित्तं दिव्यान् स्पर्शादीन् भुञ्जानो बिहतु प्रभुरिति ॥ 'सूरस्स णं भंते!' इत्यादि, सूरस्य भदन्त ! ज्योतिषेन्द्रस्य ज्योतिषराजस्य कति अप्रमहिष्यः प्रज्ञप्ताः १, भगवानाह - गौतम! चतस्रोऽयमहिष्यः प्रज्ञप्ताः, तद्यथा-सूर्यप्रभा आतपाभा अर्चिर्माली प्रभङ्करा । 'तत्थ णं एगमेगाए देवीए' इत्यादि चन्द्रवत्तावद्वक्तव्यं यावत् 'नो चेत्र णं मेहुणवत्तियं' नवरं सूर्यावतंस के विमाने सूर्वे सिंहासने इति वक्तव्यं, शेषं तथैव ॥
चंदविमाणे णं भंते! देवाणं केवतियं कालं ठिती पण्णत्ता?, एवं जहा ठितीपए तहा भाणियच्चा जाव ताराणं ॥ (सू० २०५ )
'चंदविमाणे णं भंते!' इत्यादि, चन्द्रविमाने भदन्त ! देवानां कियन्तं कालं स्थिति ?, भगवानाह - गौतम! जघन्येन चतुर्भागपस्योपमं चतुर्भाग: पस्योपमस्य चतुर्भागपस्योपममर्द्धपिप्पलीवत्, अत्रापि चिरन्तनव्याकरणेऽयं समासः, यदिवा चतुर्भागमात्रं | पस्योपमं चतुर्भागपस्योपममिति विशेषणसमासः पत्योपमस्य चतुर्भाग इत्यर्थः, उत्कर्षतः पत्योपमं वर्षशतसहस्राभ्यधिकं, चन्द्रविमाने हि चन्द्रदेव उत्पयते अन्ये च तत्सामानिकामरक्षादवः, तत्रामरक्षादीनां यथोक्ता जपन्या स्थितिः उत्कृष्टा चन्द्रमसां तत्सामानिकानां वा । 'चंदविमाणे णं भंते!' इत्यादि, चन्द्रविमाने भदन्त ! देवीनां कियन्तं कालं स्थितिः प्रज्ञता ?, भगवानाह गौतम ! जघन्येन चतुर्भागपल्योपममुत्कर्षत: पस्योपमा पश्चाशता वर्षसहस्रैरभ्यधिकं । एवं सूर्यादिविमानविषयाण्यपि स्थितिसूत्राणि वा
For P&False Cinly
~ 772~