________________
आगम
(१४)
प्रत
सूत्रांक
[१७७]
गाथा:
॥१-३२||
दीप
अनुक्रम
[२५०-२८६]
"जीवाजीवाभिगम" उपांगसूत्र- ३ ( मूलं + वृत्तिः)
उद्देशक: ((दविप्-समुद्र)].
मूलं [१७७] + गाथा: ...आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
प्रतिपत्तिः [३],
मुनि दीपरत्नसागरेण संकलित.....
•
3
तानि यथायोगमन्यस्मिन्नन्यस्मिन्मण्डले तेपां संचरिष्णुत्वात् नक्षत्रसारकाणां तु मण्डलान्यनवस्थितान्येव तथा चाह-नक्षत्राणां तारकाणां च मण्डलान्यवस्थितानि ज्ञातव्यानि किमुक्तं भवति ? - आकालं प्रतिनियतमेकैकं नक्षत्राणां तारकाणां च मण्डलमिति, न चैत्रं व्यवस्थितमण्डलस्वोक्तावेवमाशङ्कनीयं यथा तेषां गतिरेव न भवतीति यत आह- 'तेऽवि य' इत्यादि, तान्यपि नक्षत्राणि तारकाणि च सूत्रे पुंस्त्वनिर्देश: प्राकृतवान् प्रदक्षिणावर्त्तमेव इदं क्रियाविशेषणं, मेरुमनुलक्ष्मीकृत्य चरन्ति एतच्च मेरुं लक्ष्यीकृत्य तेषां प्रदक्षिणावर्त्तचरणं प्रत्यक्षत एवोपलक्ष्यत इति संवादि ॥ 'रजनिकरदिनकराणां' चन्द्रादित्यानामू बायो वा सङ्क्रमो न भवति तथा जगत्स्वाभाव्यान् तिर्यक् पुनर्मण्डलेषु सङ्क्रमणं भवति, किंविशिष्टमित्याह – 'साभ्यन्तरबाह्यम्' अभ्यन्तरं च बाझं च अभ्यन्तरबाह्यं सह अभ्यन्तरवाएं यस्य येन वा तत् साभ्यन्तरवाां एतदुक्तं भवति ? - सर्वाभ्यन्तरान्मण्डलात्परतस्तावन्मण्डलेषु सङ्क्रमणं यावत्सर्व बाह्य मण्डलं, सर्वेवाह्याच मण्डलाद मण्डलेषु तावत्सङ्क्रमणं यावत्सर्वाभ्यन्तरमिति ॥ ' रजनिकर दिनकराणां चन्द्रादित्यानां नक्षत्राणां महाप्रहाणां च 'चारविशेषेण' तेन तेन चारेण सुखदुःखविषयो मनुष्याणां संभवन्ति, तथाहि - द्विविधानि सन्ति सदा मनुष्याणां कर्माणि तद्यथा-शुभवेयानि अशुभवेद्यानि च कर्मणां च सामान्यतो विपाकहेतवः पञ्च तद्यथाद्रव्यं क्षेत्र कालो भावो भव, उक्तञ्च - - "उद्यक्खयखओवसगोवसमा जं च कम्मुणो भणिया । दव्वं खेत्तं कालं भावं भवं च संपप्य ॥ १ ॥ " शुभवेद्यानां च कर्मणां प्रायः शुभद्रव्यक्षेत्रादिसामग्री विपाकहेतु:, अशुभवेद्यानामशुभद्रव्यक्षेत्रादि सामग्री, ततो यदा येषां जन्मनक्षत्रानुकूलश्चन्द्रादीनां चारस्तदा तेषां प्रायो यानि शुभवेद्यानि कर्माणि तानि तथाविधां विपाकसामग्रीमधिगम्य १ उदयः क्षयः क्षयोपशम उपशमो यच कर्मणो भणिताः । इव्यं क्षेत्र का भावं भवं च संप्राप्य ॥ १ ॥
For P&P Cy
~ 678 ~