________________
आगम
(१४)
प्रत
सूत्रांक
[१७२
-१७३]
दीप
अनुक्रम
[२२२
२२३]
“जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:)
उद्देशक: [(द्विप्-समुद्र)],
मूलं [ १७२ १७३] आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि प्रणीत वृत्तिः
प्रतिपत्तिः [३], मुनि दीपरत्नसागरेण संकलित
जनसहस्रप्रमाण उष्टयः, किन्तु मध्यभाग एवं दशसहस्रप्रमाणविस्तारस्ततः कथं यथोक्तं धनगणितमुपपद्यते ? इति सत्यमेतत् केबलं लवणशिस्यायाः शिरसि उभयोश्च वेदिकान्तयोरुपरि दवरिकायामेकान्तऋजुरूपायां दीयमानायां २ यदपान्तराले जलशून्यं क्षेत्रं तदपि करणगत्या तदाभाव्यमिति सजलं विवक्ष्यते, अत्रार्थे च दृष्टान्तो मन्दरपर्वतः तथाहि - मन्दरपर्वतस्य सर्वत्रैकादशभागपरिहाणिरूपवर्ण्यते, अथ च न सर्वत्रैकादशभागपरिहाणिः, किन्तु कापि कियती, केवलं मूलादारभ्य शिखरं यावदवरिकायां दत्तायां यदपान्तराले कापि कियदाकाशं तत्सर्वं करणगत्या मेरोराभाव्यमिति मेरुतया परिकल्प्य गणितज्ञाः सर्वत्रैकादशपरिभागहानि परिवर्णयन्ति तद्वदिदमपि यथोक्तं पनपरिमाणमिति, न चैतत्वमनीषिकाविजृम्भितं यत आह जिनभद्रगणिक्षमाश्रमणो विशेषणवत्यामेतद्विचारप्रक्रमे "एवं उभयवेदयंताओ सोलसहरसुस्सेहस्स कन्नगईए जं लवणसमुद्दाभवं जलमुन्नपि खेत्तं तत्स गणियं, जहा मंदरपव्वयस्स एकारसभागपरिहाणी कन्नगईए आगासरसवि तदाभवंतिका भणिया तहा लवणसमुदस्सवि ||" इति ॥ 'जइ णं भंते!' इत्यादि यदि भदन्त ! लवणसमुद्रो द्वे योजनशतसहस्रे चक्रवालविष्कम्भेन पञ्चदश योजनशतसहस्राणि एकाशीतिः सहस्राणि शतं चैकोनचत्वारिंशं किञ्चिद्विशेषशेनं परिक्षेपेण प्रमः, एकं योजनसहस्रमुद्वेधेन पोडश योजनसहस्राण्युत्सेधेन सप्तदश योजनसहस्राणि सर्वामेण प्रज्ञप्तः ॥ तर्हि 'कम्हा णं भंते!' इत्यादि, कस्माद् भदन्त ! लवणसमुद्रो जम्बूद्वीपं द्वीपं न 'अवपीडयति' जलेन प्लावयति, न 'उत्पीडयति' प्रावल्येन बाधते, नापि णमिति वाक्यालङ्कृती 'एकोदकं सर्वात्मनोदकलावितं करोति ?, भगवानाह - | गौतम ! जम्बूद्वीपे भरतैरावतयोः क्षेत्रयोरन्तञ्चक्रवर्त्तिनो बलदेवा वासुदेवाः 'चारणाः जङ्घाचारणमुनयो विद्याधराः 'श्रमणाः ' साधवः 'श्रमण्यः संयत्यः आवका: आविकाः, एतत् सुषमदुष्पमादिकमरकत्रयमपेक्ष्योक्तं वेदितव्यं तत्रैवादादीनां यथायोगं सम्भ
For P&False City
~654~
t