________________
आगम
(१४)
“जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति : [3], ----- ------------ उद्देशक: [(द्वीप-समुद्र)], ----- ---------- मूलं [१४७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [१४७]
दीप अनुक्रम [१८५]]
वत् संस्थिता पट्टसंस्थित्ता प्रशस्ता प्रशस्तलक्षणोपेत त्वाद् विस्तीर्णा ऊर्ध्वाधः पृथुला दक्षिणोत्तरतः श्रोणि:-कटेरप्रभागो यासां ताः पट्टस-10 स्थितविस्तीर्णपृथुलोणय: 'वयणायामप्पमाणदुगुणियविसालमसलसुबद्धजहणवरधारणीओ' बदनस्य-मुखस्यायामप्रमाण-द्वाद-15 शाङ्गुलानि तस्माद् द्विगुणित-द्विगुणप्रभाणं सद् विशालं वदनायामप्रमाणद्विगुणितविशालं मांसलमप्युपचितं सुबद्ध-अतीव सुबद्धावयम् | न तु श्वथमिति भावः जघनवरं-वरजघनं, वरशब्दस्य विशेषणस्यापि सतः परनिपात: प्राकृतलात्, धारयन्तीत्येवंशीला बदनायामप्रमाणद्विगुणितविशालमांसलसुवद्धजयनवरधारिण्यः बिजविराइयपसत्थलक्खणनिरोदरतिवलीविणीयतणुनमियमज्झियाओं वनस्येव विराजितं वनविराजितं प्रशस्तानि लक्षणानि यत्र तत् प्रशस्तलक्षणं निरुदरं-विकृतोदररहितं त्रिवलीविनीतं-तिस्रो बलयो |विनीता-विशेषतः प्रापिता यत्र तत् त्रिवलीविनीतं तनु-कृशं नतं तनुनतमीपन्नतमित्यर्थः मध्यं यासां ता वनविराजितप्रशस्तलक्षणनिरुदरत्रिवलीविनीततनुनतमध्यकाः 'उज्जुयसमसंहियजच्चतणुकसिणनिद्धआएजलडहसुविभत्तसुजायसोभतरुइलरमणिज्जरोम-18 राई' ऋजुका-न वका समा-न काप्युदन्तुरा संहिता-सन्तता न लपान्तरालव्यवच्छिन्ना जात्या-प्रधाना तन्वी न तु स्थूरा कृष्णा न मर्कटवर्णा स्निग्धा-स्निग्धच्छाया आदेया-दर्शनपथप्राप्ता सन्ती उपादेया सुभगेति भावः, एतदेव समर्थयति-लटहा-सलवणिमाऽत एव | आदेया सुविभक्ता-सुविभागा सुजाता-जन्मदोषरहिता अत एव शोभमाना रुचिरा-दीपा रमणीया-द्रष्टुमनोरमणशीला रोमराजि
र्यासां ता नजुकसमसहितजात्यतनुकृष्णस्निग्धादेवलट हसुविभक्त सुजातशोभमानरुचिररमणीयरोमराजयः गंगावत्तपयाहिणावत्त
तरंगभंगुररविकिरणतरुणपोहियआकोसायंतपउमगंभीरबियडनाभा' इति पूर्ववन्, 'अणुव्भडपसत्थपीणकुच्छीओ' भनुदा-अनुदाबणा प्रशस्ता-प्रशस्तलक्षणा पीना कुक्षिर्यास ता अनुबटप्रशस्तपीनकुक्षयः सन्नयपासा संगतपासा सुंदरपासा सुजायपासा मिय
1
~552~