SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१४७ ] दीप अनुक्रम [१८५] “जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:) प्रतिपत्तिः [३], उद्देशक: [(द्वीप समुद्र )], मूलं [१४७] मुनि दीपरत्नसागरेण संकलित .........आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्तिः जम्बूद्वीपे णमिति बाक्यालङ्कारे द्वीपे मन्दरपर्वतस्य 'उत्तरेण' उत्तरतः नीलयतो वर्षधरपर्वतस्य 'दक्षिणेन' दक्षिणतो गन्धमादनस्य वक्षस्कार पर्वतस्य 'पुरत्थिमेणं'ति पूर्वस्यां दिशि माल्यवतो वक्षस्कारपर्वतस्य पश्चिमायाम् 'अत्र' एतस्मिन् प्रदेशे उत्तरकुरवो नाम कुरवः प्रज्ञप्ताः, सूत्र एकवचननिर्देशोऽकारान्ततानिर्देशश्च प्राकृतत्वात्, ताञ्च कथम्भूताः ? इत्याह- 'पाईणे' त्यादि. प्राचीनापाचीनायता उदग्दक्षिणविस्तीर्णा अर्द्धचन्द्रसंस्थानसंस्थिता एकादश योजनसहस्राण्यष्ट्र योजनशतानि 'द्विचत्वारिंशानि ' द्विचखारिंशदधिकानि द्वौ चैकोनविंशतिभागी योजनस्य 'विष्कम्भेन' दक्षिणोत्तरतया विस्तारेण, तथाहि - महाविदेहे मेरोरुत्तरत उत्तरकुरवो दक्षिणतो दक्षिणकुरवः, ततो यो महाविदेहक्षेत्रस्य विष्कम्भस्तस्मान्मन्दरविष्कम्भे शोधिते यदवशिष्यते तस्यार्द्ध यावत्परिमाणमेतावत्प्रत्येकं दक्षिणकुरूणामुत्तरकुरूणां च विष्कम्भः उक्तं च-- "बदेहा विक्खभा मंदरविक्खंभसोहियङ्कं जं कुरुवित्रखभं जाण" इति, स च यथोक्तप्रमाण एव, तथाहि महाविदेहे विष्कम्भन्त्रयस्त्रिंशद् योजनसहस्राणि षट् शतानि चतुरशीत्यधिकानि योजनानां चतस्रः कलाः ३३६८४ क० ४, एतस्मान्मेरुविष्कम्भो दृश योजनसहस्राणि शोध्यन्ते १०००० स्थितानि पश्चात्रयोविंशतिः सहस्राणि पट् शतानि चतुरशीत्यधिकानि योजनानां चतस्रः कलाः २३६८४ ० ४, एतेषाम लच्चान्येकादश सहस्राणि अष्टौ शतानि द्विचत्वारिंशदधिकानि योजनानां द्वे च कले ११८४२०२ ॥ 'ती' इत्यादि, तासामुत्तरकु रूणां जीवा उत्तरतो नीलवर्षेघरसमीपे प्राचीनापाचीनायता उभयतः पूर्वपश्चिमभागाभ्यां वक्षस्कारपतिं यथाक्रमं माल्यवन्तं गन्धमादनं च 'स्पृष्टा' स्पृष्टवत्ती, एतदेव भावयति - 'पुरथिमिलाए' इत्यादि, पूर्वया 'कोय्या' अग्रभागेन पूर्व वक्षस्कारपर्वतं माल्यवदभिधानं 'स्पृष्टा' स्पृष्टवती 'पश्चिमया' पश्चिमविलम्बिन्या कोट्या भिकारपर्वतं गन्धमादनाख्यं स्पृष्टा सा च जीवा For Pare & Personalise Cindy ~ 528~ www
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy