SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१५] दीप अनुक्रम [१६] प्रतिपत्तिः [१], मुनि दीपरत्नसागरेण संकलित. श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः १ ॥ २३ ॥ "जीवाजीवाभिगम" उपांगसूत्र- ३ (मूलं+वृत्तिः) उद्देशक: [-], मूलं [१५] आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्तिः - स्फटिकः २६ 'चः' पूर्ववत्, लोहिताक्षः २७ मरकतः २८ मसारगलः २९ भुजमोचकः ३० इन्द्रनील ३१ चन्दन (:) ३२ गैरिफ ३३ हंसगर्भः ३४ पुलकः ३५ सौगन्धिक ३६ चन्द्रप्रभः ३७ वैडूर्यः ३८ जलकान्तः ३९ सूर्यकान्तच ४०, तदेवमायया गा यया पृथिव्यादयश्चतुर्दश भेदा उक्ताः द्वितीयगाथयाऽष्टौ हरितालादयः तृतीयगाथया गोमेजकादयो दश तुर्यगाथयाऽष्टाविति, स साया चत्वारिंशत्, 'जे यावण्णे तहप्पगारा' इति येऽपि चान्ये तथाप्रकारा मणिभेदाः पद्मरागादयस्तेऽपि स्वरवादरपृथिवीकायिकत्वेन वेदितव्याः । 'ते समासतो' इत्यादि, ते बादरपृथिवीकायिकाः 'समासतः " सङ्क्षेपेण द्विविधाः प्रज्ञप्ताः, तद्यथा-पर्याप्तका अपर्याप्तकाश, तत्र येऽपर्याप्तकास्ते स्वयोग्याः पर्याप्तीः साकल्येनासंप्राप्ताः अथवाऽसंप्राप्ता इति विशिष्टान् वर्णादीननुपगताः तथाहि -वर्णादिभेदविवक्षायामेते न शक्यन्ते कृष्णादिना भेदेन व्यपदेष्टुं किं कारणमिति चेद् उच्यते, इह शरीरादिपर्याप्तिषु परिपूर्णासु सतीषु बादराणां वर्णादिभेदः संप्रकटो भवति नापरिपूर्णासु ते चापर्याप्ता उच्छासपर्याया अपर्याप्ता एव म्रियन्ते ततो न स्पष्टो व र्णादिविभाग इत्यसंप्राप्ता इत्युक्तम्, अन्ये तु व्याचक्षते-सामान्यतो वर्णादीन संप्राप्ता इति, तच न युक्तं यतः शरीरमात्रभाविनो वर्णादयः शरीरं च शरीरपर्याया संजातमिति । 'तरथ ण'मित्यादि, तत्र ये ते पर्याप्तकाः - परिसमाप्तसमस्तस्वयोग्य पर्याप्तयते वर्णादेशेन वर्णभेदविवक्षया एवं गन्धादेशेन रसादेशेन स्पर्शादेशेन सहस्रायशः - सहस्रसया विधानानि भेदाः, तद्यथा-वर्णः कृष्णादिभेदारपश्च गन्धौ सुरभीतरभेदाही रसास्तिकादयः पञ्च स्पर्शा मृदुकर्कशादयोऽम्रो, एकैकस्मिंश्र वर्णादी तारतम्यभेदेनानेकेऽवान्तरभेदाः, तथाहि - भ्रमरकोकिलकज्जलादिषु तरतमभावात् कृष्णः कृष्णतरः कृष्णतम इत्यादिरूपतयाऽनेके कृष्णभेदाः, एवं नीलं दिष्वप्यायोज्यं, तथा गन्धरसस्पर्शेष्वपि तथा परस्परं वर्णानां संयोगतो धूसरकरत्वादयोऽनेकसङ्ख्याभेदाः, एवं गन्धादीनामपि परस्परं गन्धादिभिः For P&P Cy ~ 49~ १ प्रतिपत्तौ बादरपुथ्वीकायाः सू० १५ ॥ २३ ॥ by M
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy