SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [७९] दीप अनुक्रम [९३] "जीवाजीवाभिगम" उपांगसूत्र - ३ ( मूलं + वृत्तिः) उद्देशकः [(नैरविक)-१], प्रतिपत्ति: [३], मुनि दीपरत्नसागरेण संकलित ...... मूलं [७९] ........ ... आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्तिः - • - 3 जनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तं । 'इमीसे ण'मित्यादि, अस्य भदन्त ! रवप्रभायाः पृथिव्या रत्नकाण्डस्योपरितनाञ्चरमान्तात्परतोडब्बहुलस्य काण्डस्य य उपरितनश्चरमान्त एतदन्तरं कियद् अवाधया प्रज्ञप्तम् ?, भगवानाह - गौतम! एकं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तं । 'इमीसे ण' मित्यादि, अस्या भवन्त ! रनप्रभायाः पृथिव्या रत्नकाण्डस्योपरितनाचर मान्तात्परतोऽस्य काण्डस्य योऽवस्तनञ्चरमान्त एतदन्तरं कियद् अवाध्या प्रज्ञप्तम् ?, भगवानाह - गौतम ! अशीत्युत्तरं योजनशतसहस्रम् । घनोद्धेरुपरितने चरमान्ते पृष्टे एतदेव निर्वचनम शीत्युत्तरयोजनशतसहस्रम् अधस्तने पृष्ठे इदं निर्वचनं द्वे योजनशतसहस्रे अबाधयाऽन्तरं प्रज्ञप्तम् । वनवातस्योपरितने चरमान्ते पृष्टे इदमेव निर्वचनं, घनोदध्यधस्तनचरमान्तस्य धनवानोपरितनचरमान्तस्य च परस्परं संलग्नखात् । धनवातस्याधस्तने चरमान्ते पृष्ठे एतन्निर्वचनम् असङ्ख्येयानि योजनशतसहस्राण्यवाधयाऽन्तरं प्रज्ञप्तम् । एवं तनुवातस्योपरितने चरमान्ते अधस्तने चरमान्ते अवकाशान्तरस्याप्युपरितनेऽधस्तने च चरमान्ते इत्थमेत्र निर्वचनं वक्तव्यम्, असोयानि योजनशतसहस्राण्यवाधयाऽन्तरं प्रज्ञप्तमिति, सूत्रपाठस्तु प्रत्येकं सर्वत्रापि पूर्वानुसारेण स्वयं परिभावनीयः सुगमत्वात् ॥ 'दोच्चाए र्ण' इत्यादि, द्वितीयस्या भदन्त ! पृथिव्या उपरितनाञ्चरमान्तात्परतो योऽधस्तनञ्चरमान्त एतत् 'कियत्' किंप्रमाणमवाधयाऽन्तरं प्रज्ञप्तम् ?, भगवानाह - गौतम! 'द्वात्रिंशदुत्तरं द्वात्रिंशत्सहस्राधिकं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तम् । धनोद्धेरुपरितने चरमान्ते पुढे एतदेव निर्वचनं द्वात्रिंशदुत्तरं योजनशतसहस्रम् अधस्तने चरमान्ते पृष्ठे इदं निर्वचनं द्विपञ्चाशदुत्तरं योजनशतसहस्रम् । एतदेव घनवातस्त्रोपरितन चरमान्त पृच्छायामपि वनवातस्याधस्तनचरमान्तपृच्छायां तनुवादाकाशान्तर योरुपरितनाधस्तन चरमान्त पृच्छा सु च यथा रनप्रभायां तथा वक्तव्यम्, अमेयानि योजनशतसहस्राण्यवाधयाऽन्तरं प्रज्ञप्तमिति वक्तव्यमिति भाव: ।। 'तच्चाए णं For P&P Cy ~ 204~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy