________________
आगम
(१२)
प्रत
सूत्रांक
[२१]
दीप
अनुक्रम
[२१]
“औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
मूलं [... २१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१२], उपांग सूत्र [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
विपुला च विस्तीर्णा वेला - जलवृद्धिलक्षणा यत्र स तथा तं, 'चउरंतमहंतं' ति चतुर्विभागं दिग्भेदगतिभेदाभ्यां महान्तं च-महायामम्, 'अणवदग्गं ति अनवदनम् - अनन्तमित्यर्थः, 'रुद'ति विस्तीर्ण, संसारसागरमिति व्यक्तं, 'भीमदरिसणिजं'ति भीमो दृश्यत इति भीमदर्शनीयस्तं, 'तरंति' लक्ष्यन्ति, संयमपोतेनेति योगः, किम्भूतेन ? - 'घीईघणियनिष्पकंपेण' |धृतिरज्जुबन्धनेन धनिकम् - अत्यर्थ निष्प्रकम्पः - अविचलो यः स मध्यपदलोपाद्धतिधनिकनिष्प्रकम्पस्तेन त्वरितचपलम्अतित्वरितं यथा भवतीत्येवं तरन्ति, 'संवरवेरग्गतुंगकूवय सुसंपउत्तेणं' संवरः- प्राणातिपातादिविरतिरूपो वैराग्यं-कपायनिग्रहः एतल्लक्षणो यस्तुङ्गः- उच्चः कूपकः स्तम्भविशेषस्तेन सुष्ठु सम्प्रयुक्तो यः स तथा तेन, 'गाणसियविमलमूसिएणं 'ति ज्ञानमेव सित:- सितपटः स विमल उच्छ्रितो यत्र स तथा तेन, मकारचेह प्राकृतशैलीप्रभवः 'सम्मत्तविमुद्धलद्धणिजामएणं सम्यक्त्वरूपो विशुद्धो- निर्दोषो लब्धः - अवाप्तो निर्यामकः- कर्णधारो यत्र स तथा तेन, धीरा-अक्षोभाः संयमपोतेन शीलकलिता इति च प्रतीतं, 'पसत्यज्झाणतववायपणोलिय पहाविएणं' प्रशस्तध्यानं धर्मादि तद्रूपं यत्तपः स एव वातो वायुस्तेन यत् प्रणोदितं-प्रेरणं तेन प्रधावितो-येगेन चलितो यः स तथा तेन, संयमपोतेनेति प्रकृतम्, 'उज्जमव | वसायग्गहियणिज्जरणजयण उवओगणाणदंसणविसुद्धवयभंडभरिअसारा' उद्यमः - अनालस्यं व्यवसायो - वस्तुनिर्णयः सङ्ख्या| पारो वा ताभ्यां मूलकल्पाभ्यां यद्गृहीतं क्रीतं निर्जरणयतनोपयोगज्ञानदर्शन विशुद्धव्रतरूपं भाण्डं क्रयाणंक तस्य भरितःसंयमपोतभरणेन पिण्डितः सारो यैस्ते तथा, श्रमणवरसार्थवाहा इति योगः, तत्र निर्जरणं तपः यतना- बहुदोषत्यागेनास्पदोपाश्रयणम् उपयोगः - सावधानता ज्ञानदर्शनाभ्यां विशुद्धानि व्रतानि, अथवा ज्ञानदर्शने च विशुद्धब्रतानि चेति
For Parts Only
~98~