SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ आगम (१२) “औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:) --------- मूलं [...२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति: औपपा |श्रमण तिकम् ॥४६॥ प्रत सूत्रांक [२१] दीप अनुक्रम जरामरणान्येव करणानि-साधनानि यस्य तत्तथा, तच्च तद्गम्भीरदुःखं च तदेव प्रक्षुभितं-प्रचलितं प्रचुर-प्रभूत सलिलं-जलं यत्र स तथा तं, संसारसागरं तरन्तीति योगः, 'संजोगविओगवीइचिंतापसंगपसरियवबंधमहलविउलकल्लोलकलुणविलविअलोभकलकलिंतबोलबहुलं' संयोगवियोगा एव वीचयः-तरङ्गा यत्र स तथा, चिन्ताप्रसङ्ग:-चिन्तासातत्यमित्यर्थः स || एवं प्रसृत-प्रसरो यस्य स तथा, वधाः-हननानि बन्धाः-संयमनानि तान्येव महान्तो-दीर्घा विपुलाश्च-विस्तीर्णाः कलोला-महोर्मयो यत्र स तथा, करुणानि विलपितानि यत्र स तथा, स चासौ लोभश्च, स एव कलकलायमानो यो बोलोध्वनिः स बहुलो यत्र स तथा, ततः संयोगादिपदानां कर्मधारयोऽतस्तम्, 'अवमाणणफेणतिबखिसणपुलंपुलप्पभूयरो| गवेअणपरिभवविणिवायफरुसधरिसणासमावडियकढिणकम्मपत्थरतरंगरंगतनिश्चम[भयतोयपहुं' अपमानमेव-अपूजनमेव फेनो यत्र स तथा, तीव्रबिंसनं च-अत्यर्थनिन्दा पुलम्पुलप्रभूता-अनवरतोद्भूताः या रोगवेदनाः, पाठान्तरे तीव्रखिंसनं प्रलुम्पनानि च प्रभूतरोगवेदनाश्च परिभवविनिपातश्च-पराभिभवसम्पर्कः परुषर्षणाश्च-निष्ठुरवचननिभर्सनानि समापतितानि-समापन्नानि बद्धानि यानि कठिनानि-कर्कशोदयानि कर्माणि-ज्ञानावरणादीनि तानि चेति द्वन्द्वः, तत एतान्येव ये प्रस्तरा:-पाषाणास्तैः कृत्वा तरङ्गै रङ्गदू-वीचिभिश्चलत् नित्यं-ध्रुवं मृत्युभयमेव-मरणभीतिरेव तोयपृष्ठ-जलोपरितनभागो यत्र स तथा, ततः कर्मधारयः, अथवा अपमानफेनमिति तोयपृष्ठस्य विशेषणम्, अतो बहुव्रीहिरेवातस्तं, कसायपायालसंकुलं' कषाया एव पाताला:-पातालकलशास्तैः सङ्कलो यः स तथा तं, 'भवसयसहस्सकलुसजलसंचय |भवशतसहस्राण्येव कलुषो जलानां सश्चयो यत्र स तथा तं, पूर्व जननादिजन्यदुःखस्य सलिलतोक्ता इह तु भवानां जन [२१] ARSA ॥४६ ~ 95~
SR No.004112
Book TitleAagam 12 AUPAPAATIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages244
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aupapatik
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy