SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ आगम (१२) प्रत सूत्रांक [१९] दीप अनुक्रम [१९] “औपपातिक” Education Internation - मूलं [... १९] मुनि दीपरत्नसागरेण संकलित ........आगमसूत्र [१२], उपांग सूत्र [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः तपस: बाह्य अभ्यंतर भेदा: उपांगसूत्र-१ (मूलं+वृत्तिः) | अल्पकलह इत्यर्थः, कलहः- कोधकार्यम् 'अप्पत्ति अस्पशम्शः - अविद्यमान कलहविशेषः, अल्पशब्दश्चाभाववचनोऽप्यस्ति, 'दवाभिग्गहचरए ति द्रव्याश्रिताभिग्रहेण चरति - भिक्षामदति द्रव्याश्रिताभिग्रहं वा चरति आसेवते यः स द्रव्याभिग्रहचरकः, इह च भिक्षाचर्यायां प्रक्रान्तायां यद् द्रव्याभिग्रहचरक इत्युक्तं तद्धर्मधर्मिणोरभेदविवक्षणात्, द्रव्याभिग्रहश्च लेपकृतादिद्रव्यविषयः, क्षेत्राभिग्रहः- स्वग्रामपरग्रामादिविषयः, कालाभिग्रहः -पूर्वाह्नादिविषयः, भावाभिग्रहस्तु गानहसनादिप्रवृत्तपुरुषादिविषयः, 'उक्खित्तचरए'त्ति उत्क्षितं स्वप्रयोजनाथ पाकभाजनादुद्धृतं तदर्थमभिग्रहतश्वरति तद्गवेषणाथ गच्छतीत्युत्क्षिप्तचरकः, एवमुत्तरत्रापि, 'निक्खित्तचरए'त्ति निक्षिप्तं - पाकभाजनादनुद्धृतं 'उक्खित्तनिक्खितचरए'त्ति पाकभाजनादुत्क्षिप्य निक्षितं तत्रैवान्यत्र वा स्थाने यत्तदुत्क्षिप्तनिक्षिप्तम् अथवोत्क्षिप्तं च निक्षिप्तं च | यश्चरति स तथोच्यते 'निक्खित्त उक्खित्तचरए' ति निक्षिप्तं भोजनपात्र्यामुत्क्षिप्तं च स्वार्थ तत एव निक्षिप्तोत्क्षिप्तं, 'वट्टिीजमाणचरए ति परिवेष्यमाणचरकः 'साहरिजमाणचरए'त्ति यत् कूरादिकं शीतलीकरणार्थ पटादिषु विस्तारितं तत्पुनभजने क्षिष्यमानं संहियमाणमुच्यते, 'उवणीअचरए'त्ति उपनीतं केनचित्कस्यचिद्रपढौकितं प्रहेणकादि, 'अवणीयचरए'ति अपनीतं देयद्रव्यमध्यादपसारितमन्यत्र स्थापितमित्यर्थः, 'उवणीयावणीयचरए'त्ति उपनीतं विनीतं ढौकितं सत्प्रहेणकाद्यपनीतं स्थानान्तरस्थापितं अथवोपनीतं चापनीतं च यश्चरति स तथा अथवा उपनीतं-दायकेन वर्णितगुणं अपनीतं निराकृतगुणम् उपनीतापनीतं यदेकेन गुणेन वर्णितं गुणान्तरापेक्षया तु दूषितं यथाऽहो शीतलं जलं केवलं क्षारमिति, यत्तु क्षारं | किन्तु शीतलं तदपनीतोपनीतमुच्यत इति, अत आह-'अवणीयडवणीयचरए'ति, 'संसद्वचरए'त्ति संसृष्टेन - खरण्टितेन For Parts Only ~80~
SR No.004112
Book TitleAagam 12 AUPAPAATIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages244
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aupapatik
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy