________________
आगम
(१२)
प्रत
सूत्रांक
[६]
दीप
अनुक्रम
[६]
मूलं [६]
मुनि दीपरत्नसागरेण संकलित .........आगमसूत्र [१२], उपांग सूत्र [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
“औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
हितत्वात् । 'जणवयपाले 'ति तद्रक्षकत्वात् । 'जणवयपुरोहिए' ति जनपदस्य शान्तिकरत्वात् । 'सेडकरे 'ति मार्गदर्शक इत्यर्थः । 'केउकरे 'ति अद्भुत कार्यकारित्वेन चिह्नकारी । 'गरपवरे'त्ति नराः प्रवरा अस्येतिकृत्वा । 'पुरिसवरे'त्ति पुरुषाणां मध्ये प्रधानत्वात् । 'पुरिससीहे'त्ति क्रूरत्वात् । 'पुरिसवग्धे त्ति रोपे सति रौद्ररूपत्वात् । 'पुरिसासीविसेति पुरुषश्चासावाशीविषश्च पुरुषाशीविषः, आशीविषश्च सर्पः, कोपसाफल्यकरणसामर्थ्यात् । 'पुरिसपुंडरीएत्ति सुखार्थिनां सेव्यत्वात्, पुण्डरीकं च सितपद्मं । 'पुरिसवरगंधहत्थी' प्रतिराजगजभञ्जकत्वात् । 'अ'ति समृद्धः 'दित्ते'त्ति दृष्ठो दर्पवान् 'वित्ते' त्ति | प्रसिद्धः । 'विच्छिण्णविउलभवणसयणासणजाणवाहणाइण्णे'त्ति विस्तीर्णानि - विस्तारवन्ति विपुलानि प्रभूतानि भवनशयनासनानि प्रतीतानि यस्य स तथा, यानवाहनानि - रथाश्वादीनि, आकीर्णानि - गुणाकीर्णानि यस्य स तथा, ततः कर्मभारयः, अथवा विस्तीर्णविपुलभवनानि शयनासनयानवाहनाकीर्णानि यस्य: तथा । 'बहुधण बहुजायस्वरयते' बहु-प्रभूतं धनं-गणिमादिकं बहुनी च जातरूपरजते - सुवर्णरौप्ये यस्य स तथा । 'आओगपओग संपउत्ते' आयोगस्य - अर्थलाभस्य प्रयोगा- उपायाः सम्प्रयुक्ताः - व्यापारिता येन तेषु वा सम्प्रयुक्तो - व्यापृतो यः स तथा । 'विच्डड्डियपउरभत्तपाणे' विच्छर्दिते-त्य के बहुजनभोजनदानेनाविशिष्टोच्छिष्ट सम्भवात् सञ्जातविच्छद्दे वा नानाविधे प्रचुरे भक्तपाने- भोजनपानीये यस्य स तथा । 'बहुदासी दासगोमहिसग बेलगप्पभूए' बहवो दासीदासा गोमहिपगवेलकाश्च प्रभूता यस्य स तथा, गवेलका-उरभ्राः । 'पडिपुण्णजंतकोसकोठागाराउधागारे' प्रतिपूर्णानि यन्त्राणि च पाषाणक्षेपयन्त्रादीनि कोशो-भाण्डा| गारः कोष्ठागारश्च - धान्यगृहं आयुधागारश्च-प्रहरणशाला यस्य स तथा । 'बलवंत प्रभूतसैन्यः । 'दुम्बलपचामित्ते'
Education Internation
कोणिकराज्ञस्य वर्णनं
For Parts Only
~26~