________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------ मूलं [३८...] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३८]
दीप अनुक्रम
| स तथा, 'तत्ततवे' तप्तं-तापितं तपो येन स तप्ततपाः, एवं तेन तत्तपस्तप्तं येन कर्माणि सन्ताप्य तेन तपसा स्वात्माऽपि तपोरूपः सन्तापितो, यतोऽन्यस्यास्पृश्यमिव जातमिति, 'महातवें' महातपाः प्रशस्ततपाः वृहत्तपा वा 'ओराले'त्ति भीमः कथम् :-अतिकष्टं तपः कुर्वन् पार्श्ववर्तिनामल्पसत्त्वानां भयानको भवति, अपरस्त्वाह-'ओराले'त्ति उदार:-प्रधान घोर'त्ति घोरो-निघृणः परीपहेन्द्रियकपायाख्यानां रिपूणां विनाशे कर्तव्ये, अन्ये खात्मनिरपेक्षं घोरमाहुः, 'घोरगुणों घोरा:-अन्यैर्दुरनुचरा गुणाः-मूलगुणादयो यस्य स तथा, 'घोरतवस्सी' घोरैस्तपोभिस्तपस्वी 'घोरवंभचेरवासी' घोरं-दारुणमल्पसत्वैर्दुरनुचरत्वाद्यद् ब्रह्मचर्य तत्र वस्तुं शीलं यस्य स तथा, 'उच्छूढसरीरे उच्छूढम्-उम्झितमिवोज्झितं शरीरं येन तत्संस्कारत्यागात् स तथा, 'संखित्तविउलतेयलेस्से' संक्षिप्ता-शरीरान्तलींना विपुला च विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राऽऽश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्वा-विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा, 'ऊहुंजाणू' | शुद्धपृथिव्यासनवर्जनात् औपनहिकनिषद्याया अभावाच उत्कुटुकासनः सन्नपदिश्यते, ऊध्र्षे जानुनी यस्य स ऊर्ध्वजानुः, | 'अहोसिरे' अधोमुखो नोर्व तिर्यग्वा निक्षिप्तदृष्टिरिति भावः, 'झाणकोडोवगए' ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतो यः &स तथा, यथा हि कोठके धान्य प्रक्षिप्तमविप्रकीर्ण भवत्येवं स भगवान् धर्मध्यानकोष्ठकमनुप्रविश्येन्द्रियमनास्यधिकृत्य
संवृतारमा भवतीति भावः । | तए णं से भगवं गोअमे जायसहे जायसंसए जायकोऊहल्ले उप्पणसहे उप्पण्णसंसए उप्पण्णकोउहल्ले संजायसहे संजायसंसए संजायकोहल्ले समुप्पण्णसहे समुप्पण्णसंसए समुप्पण्णकोऊहल्ले उड्वाए उठेइ उठाए
[४४]
~ 170~