________________
आगम
(१२)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम [3]
“औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
मूलं [३]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१२], उपांग सूत्र [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
'ते णं पाययति यत्संबन्धाद् वनखण्ड इति । 'मूलमन्तो कन्दमन्तो' इत्यादीनि दश पदानि तत्र कन्दो- मूलानामुपरि वृक्षावयवविशेषो, मतुप्प्रत्ययश्चेह भूनि प्रशंसायां वा । स्कन्धः - स्थुडं । 'तय'त्ति त्वक् वल्कलं शाला-शाखा प्रवाल:| पलवाङ्करः, शेषाणि प्रतीतानि । 'हरियमन्ते'त्ति क्वचिद् दृश्यते, तत्र हरितानि - नीलतरपत्राणि । 'अणुपुवसुजाय रुइलवइभावपरिणयत्ति आनुपूर्व्येण मूलादिपरिपाव्या सुष्ठु जाता रुचिराः वृत्तभावैश्च परिणताः परिगता वा ये ते तथा 'अणेगसाहप्पसाहविडिमा' अनेकशाखा प्रशाखो विटप:- तन्मध्यभागो वृक्षविस्तारो वा येषां ते तथा । 'अणेगनरवामसुष्पसारियअग्गेज्झघणविउ लव (बद्ध) खंधेत्ति अनेकाभिर्नश्यामाभिः सुप्रसारिताभिरग्राह्यो घनो- निविडो त्रिपुलो- विस्तीर्णो बद्धो जातः स्कन्धो येषां ते तथा, वाचनान्तरेऽत्र स्थानेऽधिकपदान्येवं दृश्यन्ते- 'पाईणपडिणाययसाला उदीणदाहिणविच्छिण्णा ओणयनयपणय विप्पहा इय ओलंब पलंबलंबसाहप्पसाहविडिमा अवाईणपत्ता अणुईण्णपत्ता' इति, अयमर्थ:-प्राचीनप्रतीचीनयोः- पूर्वापरदिशोरायता - दीर्घाः शाला:- शाखा येषां ते तथा, उदीचीन दक्षिणयोः- उत्तरयाम्ययोर्दिशोविंस्तीर्णाविष्कम्भवन्तो येषां ते तथा, अवनता-अधोमुखा नता-आनम्राः प्रणताश्च नन्तुं प्रवृत्ताः विप्रभाजिताश्च विशेषतो विभागवत्यः अवलम्बा- अधोमुखतया अवलम्बमानाः प्रलम्बाश्च-अतिदीर्घाः (लम्बाः) शाखाः प्रशाखाश्च यस्मिन् स तथाविधो चिटपो येषां ते तथा, अवाचीनपत्राः - अधोमुखपर्णाः अनुङ्गीर्णपत्रा :- वृत्ततया अबहिर्निर्गतपर्णाः । अथाधिकृतवाचनाऽनुश्रि (त्रि ) यते-'अच्छिदपत्ता' नीरन्ध्रपत्राः । 'अविरलपत्ता' निरन्तरदलाः । 'अवाईणपत्ता' अवाचीनपत्रा १ वृक्षावयवविशेषो वेति प्र० ।
Education Internation
वनखंडस्य वर्णनं
For Penal Use Only
~16~