SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (१२) प्रत सूत्रांक [३२] दीप अनुक्रम [३२] “औपपातिक” - Education Internationa उपांगसूत्र-१ (मूलं+वृत्ति:) मूलं [... ३२ ] मुनि दीपरत्नसागरेण संकलित .........आगमसूत्र [१२], उपांग सूत्र [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः 'कंदरगिरिविवरकुहरगिरिवरपासादुद्धघणभवणदेव कुलसिंघाडगतिगचउक्कचच्चरआरामुज्जाणकाणणसभापवापदेसदेस भागे' कन्दराणि दर्यो गिरीणां विवरकुहराणि - गुहाः पर्वतान्तराणि वा गिरिवराः - प्रधानपर्वताः प्रासादाः सप्तभूमिकादयः ऊर्ध्वघनभवनानि - उच्चाविरलगेहानि देवकुलानि प्रतीतानि शृङ्गाटकत्रिकचतुष्कचत्वराणि प्राग्वत् आरामाः - पुष्पजातिप्रधानाः वनपण्डाः उद्यानानि पुष्पादिमदृक्षयुक्तानि काननानि - नगराद् दूरवर्तींनि सभा - आस्थायिकाः प्रपा- जलदानस्थानम् एतेषां ये प्रदेशदेशरूपा भागास्ते तथा तान्, तत्र प्रदेशा- लघुतरा भागा देशास्तु- महत्तराः, 'पडिसद्द (डिंसुआ ) सय| सहस्ससंकुलं करेंति' प्राकृतत्वेन बहुवचनार्थे एकवचनमत्र, ततः प्रतिशब्दलक्षसङ्कुलान् कुर्वन् कूणिको निर्गच्छतीति सम्बन्धः, तथा 'हयहेसियहत्थिगुलुगुलाइय रहघणघणसद्दमीसएणं महया कलकलरवेणं जणस्स महुरेण पूरयंते' इत्यत्र नभइत्यनेन सम्बन्धः, प्रदेशदेशभागान् वेत्यनेन, 'सुगंधवर कुसुम चुण्ण विद्धवासरेणुकविलं नभं करेंते' सुगन्धीनां वरकुसुमानां चूर्णानां च उद्धिः - ऊर्ध्व गतो यो वासरेणुः- वासकं रजः तेन यत्कपिलं तत्तथा 'नर्भ'ति नभ आकाशं कुर्वन्, 'कालागुरुकुंदुरुकतुरुक्कधूवनिवहेण जीवलोगमिव वासयंते' जीवलोकं वासयन्निव, शेषं प्राग्वत्, 'समंतओ खुभिय चकवाल' सर्वतः क्षुभितानि | चक्रवालानि-जनमण्डलानि यत्र निर्गमने तत्तथा तद्यथा भवतीत्येवं निर्गच्छतीत्येवं सम्बन्धः, तथा 'पवरजणबालबुडपमुइयतुरियपहावियविडलाउल बोलबहुलं नर्भ करेंते' प्रचुरजनाश्च अथवा पौरजनाश्च बालवृद्धाश्च ये प्रमुदितास्त्वरितप्रधाविताश्चशीघ्रं गच्छन्तस्तेषां व्याकुलाकुलानाम् अतिव्याकुलानां यो बोलः स बहुलो यत्र तत्तथा तदेवम्भूतं नभः कुर्वन्निति । अथाधिकृतवाचनाऽनुश्रीयते- 'अदूरसामंते' अनिकटासन्ने उचिते देशे इत्यर्थः, 'ठबेइत्ति स्थिरीकरोति 'अवहट्टु'त्ति For Parts Only कोणिक-राज्ञः भगवत् महावीरस्य वन्दनार्थे गमन-यात्रायाः विशद वर्णनं ~ 154~
SR No.004112
Book TitleAagam 12 AUPAPAATIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages244
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aupapatik
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy