________________
आगम
(१२)
प्रत
सूत्रांक
[३२]
दीप
अनुक्रम
[३२]
उपांगसूत्र-१ (मूलं+वृत्तिः)
मूलं [३२...]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१२], उपांग सूत्र [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
“औपपातिक”
औपपातिकम्
-
॥ ७३ ॥
'अस्थत्थिया' द्रव्यार्थिनः 'कामत्थिया' मनोज्ञशब्दरूपार्थिनः 'भोगत्थिया' मनोज्ञगन्धरसस्पर्शार्थिनः 'लाभत्थिया' भोजनमात्रादिप्राप्यर्थिनः 'किञ्चिसिया' किल्बिपिकाः परविदूषकत्वेन पापव्यवहारिणो भाण्डादयः 'कारोडिकाः कापालिकाः ताम्बूलस्थगिकावाहका वा 'कारवाहिया' करपीडिता नृपाभाव्यवाहिनो वा 'संखिया' शाङ्खिकाः चन्दनगर्भशङ्खहस्ता २ माङ्गल्यकारिणः शङ्खवादका वा 'चक्किया' चाक्रिकाश्चक्रप्रहरणाः कुम्भकारतैलिकादयो वा 'नंगलिया' गलावलम्बितसुवर्णादिमयलाङ्गलाकारधारिणो भट्टविशेषाः कर्षका या 'मुहमंगलिया' मुखे मङ्गलं येषामस्ति ते मुखमाङ्गलिका:- चाटुका|रिणः 'वद्धमाणा' स्कन्धारोपितपुरुषाः 'पूसमाणवा' पूष्यमानवा मागधा: 'खंडिअगणा' छात्रसमुदायाः 'ताहिं'ति ताभिविवक्षिताभिरित्यर्थः, विवक्षितत्वमेवाह-'इहाहिं' इष्यन्ते स्म इतीष्टा-वाञ्छितास्ताभिः प्रयोजनवशादिष्टमपि किञ्चित्स्वरूपतः कान्तं स्यादकान्तं चेत्यत आह-'कंताहिं' कमनीयशब्दाभिः 'पियाहिंति प्रियार्थिभिः 'मशुण्णाहिं' मनसा ज्ञायन्ते सुन्दरतया यास्ता मनोज्ञाः, भावतः सुन्दरा इत्यर्थस्ताभिः 'मणामाहिं' मनसा अम्यन्ते गम्यन्ते पुनः पुनर्याः सुन्दरत्वातिशयात्ता मनोऽमाः 'मणोभिरामाहिं' ति तत्र मनोऽभिविधिना बहुकालं यावत् रमयन्तीति मनोऽभिरामा अतस्ताभिः, | वाचनान्तराधीतमथ प्रायो वाग्विशेषणकदम्बकम् 'उरालाहिं' उदाराभिः शब्दतोऽर्थतश्च 'कलाणाहिं' कल्याणाभिःशुभार्थप्राप्तिसूचिकाभिः 'सिवाहि' उपद्रवरहिताभिः शब्दार्थदूषणरहिताभिरित्यर्थः 'धण्णाहिं' धन्याभिः- धनलम्भिकाभिः * ॥ ७३ ॥ 'मंगलाहिं' मङ्गले- अनर्धप्रतिघाते साध्वीभिः 'सस्सिरीयाहिं' सश्रीकाभिः शोभायुकाभिः 'हिययगमणिजाहिं' हृदयगमनीयाभिः, सुबोधाभिरित्यर्थः, 'हिययपल्हायणिजाहिं' हृदयप्रह्लादनीयाभिः हृदयगत कोपशोकग्रन्थिविलयनकरीभिरित्यर्थः,
For Parts Use Only
कोणिक-राज्ञः भगवत् महावीरस्य वन्दनार्थे गमन-यात्रायाः विशद वर्णनं
~ 149~
आशीर्व०
सू० ३१