________________
आगम
(१२)
प्रत
सूत्रांक
[३१]
दीप
अनुक्रम [३१]
“औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
मूलं [... ३१] मुनि दीपरत्नसागरेण संकलित .........आगमसूत्र [१२], उपांग सूत्र [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
पात् स्थासकाहिलाणवतामित्यर्थः, अहिलाणं च-मुखसंयमनं, शेषं प्राग्वत्, 'ईसिदंताणं' ति ईषत् मनागू दन्तानाम् 'ईसिउच्छेगविसालधवलदंताणं' उत्सङ्ग इव उत्सङ्गः- पृष्ठदेश ईषदुत्सङ्गे विशाला ते ये यौवनारम्भवर्तित्वात्ते तथा ते च धवलदन्ताश्चेति समासोऽतस्तेषां । किंच णको सीपविदंताणं' काञ्चनकोशी - सुवर्णखोला, 'वरपुरिसारोहग सुसंपत्ताणं ति क्वचिदृश्यते तत्रारोहका:- हस्तिपकाः, 'सझयाणं सपडागाणमित्यत्र ध्वजो गरुडादियुक्तस्तदितरा तु पताका, 'सनंदिघोसाणं'ति नन्दी - द्वादशतूर्यनिर्घोषः, तद्यथा- 'भंभा १ मउंद २ मद्दल ३ कर्डब ४ झल्लरि ५ हुडुक ६ कंसाला ७ । काहल ८ तलिमा ९ वंसो १० संखो | ११ पणवो १२ य वारसमो ॥ १ ॥' 'सखिखिणीजालपरिक्खित्ताणं' सह किङ्किणीकाभिः - क्षुद्रघण्टिकाभिः यज्जाले - जालक तदाभरणविशेषस्तेन परिक्षिप्ता-परिकरिता ये ते तथा तेषां, 'हेमवयचित्ततेणिसकणगणिजुत्तदाख्याणं' हैमवतानि-हिमगिरिसम्भवानि चित्राणि विविधानि तैनिशानि-तिनिशाभिधानतरुसम्बन्धीनि कनकनिर्युक्तानि सुवर्णखचितानि दारुकाणि-काष्ठानि येषु ते तथा तेषां 'कालायससुकयनेमिजंतकम्माणं ति कालायसेन-लोहविशेषेण सुष्ठु कृतं नेमेः-चक्रग |ण्डधारायाः यत्र कर्म - बन्धनक्रिया येषां ते तथा तेषां 'सुसिलिङवत्तमंडलधुराणं'ति सुष्ठु श्लिष्टा वृत्तमण्डला - अत्यर्थ मण्डला धूर्येषां ते तथा तेषां क्वचिदृश्यते 'सुसंविद्धचकमंडलधुराणं' सुसंविद्धानि - कृतसद्वेधानि चक्राणि रथाङ्गानि येषां मण्डला च-वृत्ता धूर्येषां ते तथा तेषाम्, 'आइण्णवरतुरगसंपत्ताणं' आकीर्णाः जात्याः, 'कुसलनरच्छेयसारहि सुसंपग्ाहिआणं' कुशलनरा-विज्ञपुरुषास्ते च ते छेकसारथयश्च- आशुकारिप्राजितार इति समासः, तैः सुष्ठु संप्रगृहीता ये ते तथा तेषां कचित्पठ्यते 'हेमजालगवक्खजाल खिंखिणिघंटाजालपरिक्खित्ताणं' हेमजाल - सौवर्ण आभरणविशेषः गवाक्ष
For Parts Only
कोणिक- राज्ञः भगवत् महावीरस्य वन्दनार्थे गमन-यात्रायाः विशद वर्णनं
~ 144 ~
wor