________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
-------- मूलं [...३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३१]
दीप अनुक्रम
कलित इति योगः, इह च चामरशब्दस्य नपुंसकलिङ्गत्वेऽपि स्त्रीलिङ्गनिर्देशो लोकरूढेः छान्दसत्वाद्वा न दुष्टः, प्रवर यनिरिकुहरं-पर्वतनिकुञ्जस्तत्र यद्विचरणं-सचरणं तेन सुमुदिता-अतिहृष्टा निरुपहताश्च-उपघातरहिता ये चमरा:
आटव्यगोविशेषास्तेषां यत्पश्चिमशरीरं-देहस्य पश्चिमो भागस्तत्र या सञ्जाता-उत्पन्नाः सङ्गताश्च-अनवद्यास्तास्तथा ताभिः । | 'अमलियसियकमलविमलुजलियरययगिरिसिहरविमलससिकिरणसरिसकलधोयनिम्मलाहिं अमलितम्-अमर्दितं यत्सितकमलं-पुण्डरीकं तथा विमलं-निर्मलं उज्ज्वलितम्-उद्दीप्तं यद्रजतगिरिशिखरं-वैतादयगिरिकूट तथा विमला ये शशिकिरणास्तत्सदृश्यो यास्तास्तथा ताश्च ताः कलधौतनिर्मलाश्च-रूप्यवदुज्ज्वला इति समासोऽतस्ताभिः, 'पवणाहयचवलललियतरंगत्वनचंतवीइपसरियखीरोदगपवरसागरुप्पूरचंचलाहिं' पवनाहता:-वायुप्रेरिताश्चपलाः-तरला ललिता-मनोहरास्तरङ्गहस्ताः-प्रतनुकल्लोलपाणयस्तैः नृत्यन्निव नृत्यन् यःस तथा वीचयो-महाकलोलास्तैः प्रसूतश्च-विस्तारमुपगतः स चासो क्षीरोदकश्च-क्षीराकारजलः स चासौ प्रवरसागरश्चेति कर्मधारयस्तस्य य उत्पूर:-प्रकृष्टः प्रवाहः स तथा तद्वच्चञ्चला यास्तास्तथा ताभिः, 'माणससरपरिसरपरिचियावासविसयवेसाहि इह हंसवधूभिरिव कलित इत्यनेन सम्बन्धः, मानसा|भिधानसरसः परिसरे-पान्ते परिचितः-पुनः पुनः कृत आवासो-निवासो यकाभिस्तास्तथा ताश्च ता विशदवेषाश्च-धवलाकारा इति कर्मधारयोऽतस्ताभिः, 'कणगगिरिसिहरसंसियाहिं' कनकगिरेः-मेरोरन्यस्य वा यच्छिखरं तत्संसृता यास्तास्तथा ताभिः, 'उवइयउप्पइयतुरियचवलजइणसिग्धवेगाहिं' अवपतितोत्पतितयोः-निपतनोत्पतनयोस्त्वरितचपल:-अत्य[न्तचपला जविनः-शीघ्रो वेगवतां मध्येऽतिशीघ्रो वेगो-गतिविशेषो यासा तास्तथा ताभिा, 'हंसवधूयाहिं चेव कलिए'।
SAREERENCE
[३१]
| कोणिक-राज्ञः भगवत् महावीरस्य वन्दनार्थे गमन-यात्राया: विशद-वर्णनं
~ 138~