________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
-------- मूलं [...३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३१]
ARRAGNOSRONGRECCCCCC
दीप अनुक्रम
पिङ्गालं च-कपिशं सुवर्णकम्बिकानिर्मितत्वात् उज्ज्वलं-निर्मलं यत्तत्तथा, अथवा अभ्रम्-अधकं पृथिवीकायपरिणामविशेषस्तत्पटलमिव पिङ्गलंच-उज्ज्वलं च यत्तत्तथा तेन, अविरलसमसहियचंदमंडलसमप्पभेणं' अविरलं धनशलाकावत्त्वेन | समं तुल्यशलाकायोगेन सहियत्ति-संहतमनिम्नोन्नतशलाकायोगात् चन्द्रमण्डलसमप्रभ च यद्दीच्या तत्तथा तेन, 'मंगल| सयभत्तिछेयविचित्तियखिंखिणिमणिहेमजालविरइयपरिगयपरंतकणगघंटियापयलियकिणिकिणितसुइसुहसुमहुरसद्दालसोहि| एणं' मङ्गलाभिा-माङ्गल्याभिः शतभक्तिभिः-शतसङ्ख्याविच्छित्तिभिः छेकेन-निपुणेन शिल्पिना विचित्रितं यत्तत्तथा, | किङ्किणीभिः-शुद्रघण्टिकाभिः मणिहेमजालेन च-रत्नकनकजालकेन विरचितेन-कृतेन विशिष्टरतिदेन वा परिगतं-परि| वेष्टितं यत्तत्तथा, पर्यन्तेषु-प्रान्तेषु कनकघण्टिकाभिः प्रचलिताभिः किणिकिणायमानाभिः श्रुतिसुखसुमधुरशब्दवतीभिश्च, | आलप्रत्ययस्य मत्वर्थीयत्वात् , शोभितं यत्तत्तधा, ततः पदत्रयस्य कर्मधारयोऽतस्तेन, 'सप्पयरवरमुत्तदामलंबंतभूसणेणं'। | सप्रतराणि-आभरणविशेषयुक्तानि यानि बरमुक्कादामानि-बरमुक्ताफलमाला: लंबंतत्ति-प्रलम्बमानानि तानि भूषणानि 8 यस्य तत्तथा तेन, 'नरिंदवामप्पमाणरूंदपरिमंडलेण' नरेन्द्रस्य-तस्यैव राज्ञो वामप्रमाणेन-प्रसारितभुजयुगलमानेन रुन्द-18 विस्तीर्ण परिमण्डलं-वृत्तभावो यस्य स तत्तथा तेन, 'सीयायववायवरिसविसदोसनासणेण' शीतातपवातवृष्टिविषजन्यदोषाणां शीतादिलक्षणदोषाणां या विनाशनं यत्तत्तथा तेन, 'तमरयमलबहलपडणधाडणप्पभाकरेण' तमः-अन्धकारं| रजो-रेणुमल:-प्रतीतः एषां बहलं-धनं यत्पटलं-वृन्दं तस्य धाडनी-नाशनी या प्रभा-कान्तिस्तस्करणशीलं यत्तत्तथा तेन, अथवा-रजोमलतमोबहलपटलस्य धाडने प्रभाकर इव-दिवाकर इव यत्तत्तथा 'उउसुहसिवच्छायसमणुबद्धेणं' ऋती-कालवि
[३१]
HTuniturary.orm
कोणिक-राज्ञ: भगवत् महावीरस्य वन्दनार्थे गमन-यात्राया: विशद-वर्णनं
~ 136~