________________
आगम
(१२)
प्रत
सूत्रांक
[३०]
दीप
अनुक्रम
[३०]
“औपपातिक”
-
उपांगसूत्र-१ (मूलं+वृत्तिः)
मूलं [ ३० ...]
मुनि दीपरत्नसागरेण संकलित .........आगमसूत्र [१२], उपांग सूत्र [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
पाठान्तरं ततो धर्मितादीनां कर्मधारयः, अतस्तत्, 'अहियतेयजु'ति कचिद्दृश्यते, तत्राधिकाधिकेन- अत्यर्थमधिकेन अहितानां वा शत्रूणामहितेन-अपथ्येन तेजसा प्रभावेण युक्तं यत्तत्तथा तत् । 'सहलियवरकण्णपूर विराइयं' सललिते - लालित्योपेते बरे ये कर्णपूरे- कर्णाभरणे ताभ्यां विराजितं यत्तत्तथा तत्, 'पलंवडयूलमहुअरकथं धयारं' | प्रलम्बाम्यवचूलानि - टगकन्यस्ताधोमुखकूर्चका यस्य तत् प्रलम्बावचूलं मधुकरैः - भ्रमरैर्मदजलगन्धाकृष्टैः कृतमन्धकारं यस्य तत्तथा ततः कर्मधारयः, अतस्तत्, वाचनान्तरं त्वेवं नेयं 'विरचितवरकर्णपूरं सललितप्रलम्बावचूलं च चामरोत्करकृतान्धकारं च यत्तत्तथा तत्, चामरोत्करकृतान्धकारता तु चामराणां कृष्णत्वात्, 'चित्तपरिच्छेयपच्छयं' चित्रः परिच्छेको लघुः प्रच्छदो- त्रस्त्रविशेषो यस्य तत्तथा तत्, 'पहरणावरण भरियजुद्धस' प्रहर| गावरणानाम्-आयुधकवचानां भृतं यत् युद्धसज्जं च सङ्ग्रामप्रगुणं यत्तत्तथा तत्, पाठान्तरे 'सचापशरप्रहरणावरणभरितयुद्धसज्जा' मिति, सच्छत्रं सध्यजं सघण्टमिति व्यक्तम्, सपताकमित्यपि दृश्यते, तत्र पताका-गरुडसिंहादिचिहरहिताः, 'पंचामेदयपरिमंडियाभिरामं पञ्चभिः- आमेलकैः चूडाभिः परिमण्डितमत एवाभिरामं रम्यं यत्तत् तथा तत्, 'ओसारियजमलजुयलघंटे' अवसारितम्-अवलम्बितं यमलं समं युगलं-द्विकं घण्टयोर्यत्र तत्तथा तत्, 'विज्जुपणद्धं व कालमेह' घण्टाप्रहरणादीनामुज्ज्वलदीप्तियुक्तत्वेन विद्युत्कल्पत्वात् विद्युत्परिगतमिवेत्युक्तं हस्तिदेहस्य कालत्वेन महत्वेन च मेघकल्पस्वात् कालमेघमित्युक्तम्, 'उप्पाइयपवयं व चकमत' स्वाभाविकपर्वतो हि न चङ्क्रमते अत उच्यते औत्पातिक| पर्वतमिव चङ्क्रम्यमाणं, पाठान्तरे तु औत्पातिकपर्वतमिव सक्खंति-साक्षात्, 'मत्तं गुलुगुलंत 'मिति व्यक्तं, कचित् 'महामेघ'
For Parta Use Only
कोणिक-राज्ञः भगवत् महावीरस्य वन्दनार्थे गमन-यात्रायाः विशद वर्णनं
~ 128~
yor