________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------ मूलं [२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२६]
दीप अनुक्रम
तानि प्राप्ताः, 'वरचन्दनचर्चिताः वराभरणभूपिता' इति व्यक्त, 'सबोउयसुरभिकुसुमसुरक्ष्यविचित्तवरमलधारिणीओं सर्वतुकैः सुरभिकुसुमैः सुरचितं विचित्रं वरं माल्य-मालां धारयन्ति यास्तच्छीलाश्च तास्तथा, 'सुगंधिचुण्णंगरागवरवासपुष्फपूरगविराइया' सुगन्धिचूर्णैरङ्गरागेण च-देहरञ्जनेन वरवासः पुष्पपूरकेण च-पुष्परचनाविशेषेण विराजिता यास्तास्तथा, 'अहियसस्सिरीया' अधिकं सह श्रिया-शोभया यास्तास्तथा, 'उत्तमवरधूवधूविया' उत्तमानां मध्ये यो वरधूपः स है ४ा तथा तेन धूपेन धूपिताः कृतसौगन्ध्याः यास्तास्तथा, 'सिरीसमाणवेसा' श्री:-देवता सा च लोके शोभनवेषेति रूढा
अतस्तयोपमा कृतेति, 'दिधकुसुममल्लदामपन्भंजलिपुडाओ' दिव्यैः-वरैः कुसुमैः-अविकसितैः माल्यैः-विकसितैः दामभि|श्च-तन्मयमालाभिः प्रहा:-पूजासज्जाः अञ्जलिपुटा:-अञ्जलय एव यासां तास्तथा, उच्चत्वेन च सुराणां स्तोकोनमुच्छ्रिता, का'चन्द्रानना' इति व्यक्तं, 'चंदविलासिणीओत्ति चन्द्रस्येव विलासः-कान्तिर्यासां तास्तथा, 'चन्द्रार्द्धसमललाटाः चन्द्राधिलोकसौम्यदर्शना उल्का इवोद्योतमाना' इति व्यक्तं, 'विजुघणमिरीइसूरदिपंततेअअहियतरसंनिकासाओ' विद्यतो ये धना मरीचयः-किरणाः सूरस्य च यद्दीप्त-तेजस्तेभ्योऽधिकतरः सन्निकाशो-दीप्तिर्यासां तास्तथा, 'सिंगारागारचारुवेसाओं शृङ्गारो-रसविशेषस्तत्प्रधान आकार:-आकृतिश्चारुश्च वेपो-नेपथ्यं यासा तास्तथा, अथवा शृङ्गारस्यागारमिव-गृहमिव । याश्चारुवेषाश्च यास्तास्तथा, 'संगयगयहसियभणियचेष्ठियविलाससललियसलावनिउणजुत्तोवयारकुसलाओं' सङ्गतानि-उचि& तानि यानि गतादीनि तेषु निपुणा याः सङ्गतोपचारकुशलाश्च यास्तास्तथा, तत्र गतामनं हसितं-हासः भणितं-वचनं ||
चेष्टित-चेष्टा विलासो-नेत्रविकारः, यदाह-"हावो मुखविकारः स्यात्, भावश्चित्तसमुद्भवः। विलासो नेत्रजो ज्ञेयो, विभ्रमो
[२६]
भगवत् महावीरस्य वन्दनार्थे आगता: देवी-वर्णनं
~114~