________________
आगम
(१२)
प्रत सूत्रांक
[२६]
दीप
अनुक्रम [२६]
औपपातिकम्
॥ ५३ ॥
“औपपातिक”
Education Internation
-
मूलं [२६]
मुनि दीपरत्नसागरेण संकलित .........आगमसूत्र [१२], उपांग सूत्र [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
उपांगसूत्र- १ (मूलं + वृत्तिः)
तानि तथा तैः, 'सपयरवरमुत्तदा मलं बंतभूसणेहिं' सह प्रतरैः- आभरणविशेषैर्वर भुक्तादामलक्षणानि लम्बमानानि भूषणानि येषु तानि तथा तैः, 'पचलियघंटावलिमहर सदवंसतंतितलतालगीवाइयरवेणं' प्रचलितायाः घण्टावल्याः यो मधुरः शब्दः स तथा वंशश्च वेणुस्तन्त्री च-वीणा तलतालाश्च - हस्तताला अथवा तलाश्च हस्ताः तालाश्च-कंशिका गीतं च-गेयं वादितं चचादित्रमिति द्वन्द्वः अतस्तेषां यो रवः-शब्दः स तथा ततः पदद्वयस्य समाहारद्वन्द्वः, अतस्तेन करणभूतेन मधुरेण - मनोहरेण पूरयन्तः अम्बरं, दिशश्च शोभयन्तस्त्वरितं सम्प्रस्थिताः स्थिरयशसो देवेन्द्रा इति व्यक्त, 'हडतुट्टमणस'त्ति अतीव तुष्टचित्ताः 'सेसावि य'त्ति इन्द्रसामानिकादयः, तानेवाह- 'कप्पवरविमाणाहिया' कल्पेषु यानि वरविमानानि तेनामधिपा इत्यर्थः समनुयान्ति सुरवरेन्द्रानिति योगः, अत एव सुरवराः 'सविमाणविचित्तविधनामंकविगडपागडमउडाडोवसुभदंसणिज्जा' स्वविमान विचित्रचिह्नानां नामाङ्कविकटप्रकटमुकुटानां च य आटोपः स्फारता तेन शुभा ये दृश्यन्ते ते तथा | ते विचित्र कल्पवरविमानाधिपाः, 'समन्निति'त्ति समनुयान्ति समनुगच्छन्ति सुरवरेन्द्रानिति, तथा 'लोयंतविमाणवासिणो | यात्रि देवसंघायत्ति लोकस्य ब्रह्मलोकस्यान्ते- समीपे यानि विमानानि तद्वासिनो लोकान्तिकाश्चापीत्यर्थः, 'पत्तेयविरायमाणविरइयमणिरयणकुंडल भिसंत निम्मलनियगंकियविचित्तयागडियचिंधमउडा' प्रत्येकं विराजमानानि - शोभमानानि विरचितानि - कर्णेषु कृतानि मणिरत्नकुण्डलानि येषां ते तथा, भिसंतत्ति-दीप्यमानानि निर्मलानि निजाङ्कितानि निजकेन नामादिनाऽङ्केनाङ्किवानि विचित्राणि विविधानि प्रकटितानि - प्रकाशितानि चिह्नानि च मुकुटानि चिह्नप्रधानानि वा मुकुटा ।
भगवत् महावीरस्य वन्दनार्थे आगताः वैमानिक - देवानाम् वर्णनं
For Parts Only
~ 109~
वैमानि०
सू० २६
॥ ५३ ॥
wor