________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१], ------------------------ अध्ययनं [३] ------------------------ मूलं [११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
[११]
एकाकिनः सन्तो हरन्तीति 'उक्कहुगत्ति अपकर्षका ये गेहाद् ग्रहणं निष्काशयन्ति चौरान् वा आकार्य पर
गृहाणि मोषयन्ति चौरपृष्ठवहा वा सम्प्रदायका ये चौराणां भक्तकादि प्रयच्छन्ति 'उछिपकत्ति अवच्छिKillम्पकाचौरविशेषा एव सार्थघातकाः प्रतीताः विलकोलीकारकाः परव्यामोहनाप विस्वरवचनवादिनी विस्वरवचनकारिणो वा एतेषां द्वन्द्वोऽतस्ते च, निर्गता ग्राहात्-ग्रहणान्निाहाः राजादिना अवगृहीता इत्यर्थः, ते च ते विमलोपकाति समासः बहविधेन 'तेणिकत्ति स्तेयेन हरणबुद्धिर्येषां ते बहुविहतेणिकहरणबुद्धी पाठान्तरेण 'बहुविहतहवहरणवुद्धित्ति बहुविधा तथा-तेन प्रकारेणापहरणे वुद्धियेषां ते तथा, एते उक्तरूपा अन्ये चैतेभ्यः एवंप्रकारा अदत्तमाददतीति प्रक्रमा, कथंभूतास्ते इत्याह-परस्य द्रव्याये अविरता-अनिवृत्ता इति । ये अदत्तादानं कुर्वन्ति ते उक्ताः, अधुना त एव यथा तत्कुर्वन्ति तदुच्यते-विपुलं बलं-सामयं परिग्रहश्व-परिवारो येषां ते तथा ते च बहवो राजानः परधने गृद्धाः, इदमधिकं वाचनान्तरे पदत्रयं, तथा खके-द्रव्येऽसन्तुष्टाः परविषयान्-परदेशानभिन्नन्ति लुब्धा धनस्य कार्ये धनस्य कृते इत्यर्थः, चतुर्भिरङ्गैर्विभक्तं समाप्तं वा यद्दलं-सैन्यं तेन समग्रा-युक्ता येतेतथा निश्चितैः-निश्चयवद्भिर्वरयोधैः सह याद्धं-सङ्ग्रामस्तत्र श्रद्धा सञ्जाता येषां ते तथा ते च ते अहमहमित्येवं दर्पिताश्च-दर्पवन्त इति समासस्तैरेवंविधैः भृत्यैः-पदातिभिः कचित्सैन्यैरिति पठ्यते संपरिवृताः-समेताः तथा पद्मशकटसूचीचक्रसागरगरुहब्यूहाचितैः, इह व्यूहशब्द प्रत्येकं सम्बध्यते, तत्र पद्माकारो व्यूहः पद्मव्यूहः-परेषामनभिभवनीयः सैन्यविन्यासविशेषः एव
दीप अनुक्रम [१५]]
PILunaturamom
~96~