________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्क न्ध : [१], --------- ------------- अध्ययनं [२] -------- ---------- मूलं [८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
दावकान्युपतापकानि यानि तानि तथा, यावजीवं दुरुद्धराणि-आजन्माप्यनुद्धरणीयानि अनिष्टेन खरपरुषेण च-अतिकठोरेण वचनेन यत्तर्जन-रे दास! पुरुषेण भवितव्यमित्यादि निर्भर्त्सनं-अरे! दुष्टकर्मकारिनपसर दृष्टिमार्गादित्यादिरूपं ताभ्यां दीनवदनं 'विमण'त्ति विगतं च मनो येषां ते तथा, कुभोजनाः कुवाससः कुवसतिषु क्लिश्यन्तो नैव सुखं शारीरं नैव निवृति-मनःस्वास्थ्यं उपलभन्ते-प्रामुवन्ति अत्यन्तविपुलदुःखशतसम्प्रदीप्ताः । तदियताऽलीकस्य फलमुक्तं, 'एसों इत्यादिना त्वधिकृतद्वारनिगमनं इति, व्याख्या त्वस्य प्रथमाध्ययनपश्चमद्वारनिगमनवत्, 'एयं तं वितियंपी'त्यादिनाऽध्ययननिगमनं, अस्य त्वधिकृताध्ययनप्रथमद्वारबदू व्याख्यानं, परं एतत्तद्यत्मागुद्दिष्टं द्वितीयमपि अधर्मद्वारं न केवलं प्रथममेवेति विशेषः, तदेवं द्वितीयमधर्मद्वारं समाप्तमिति, इतिशब्दब्रवीमिशब्दावपि पूर्ववदेवेति प्रश्नव्याकरणे द्वितीयमध्ययनं विवरणतः समाप्तमिति ॥२॥
दीप अनुक्रम [१२]]
अथ तृतीयमदत्तादानाख्यमधर्मद्वारम् । | व्याख्यातं द्वितीयमध्ययन, अथ तृतीयमारभ्यते, अस्य च पूर्वेण सह सूत्राभिहिताश्रवद्वारक्रमकृत एवं सम्बन्धोऽथवा पूर्वत्रालीकखरूपं प्ररूपितं अलीकं चादत्तग्राहिणः प्रायेण जल्पन्तीत्यदत्तादानस्वरूपमिह प्ररूप्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्
अत्र प्रथमे श्रुतस्कन्धे द्वितीयं अध्ययनं "मषावाद" परिसमाप्तं अथ प्रथमे श्रुतस्कन्धे तृतीयं अध्ययनं "अदत्तादानं" आरभ्यते "अदत्तादान::" - नामक तृतीयं अधर्मद्वारं
~86~