________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्तिः ) श्रुतस्कन्धः [१], ----------------------- अध्ययनं [१] ---------------------- मूलं [...४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
तत्तथा, ततः पदत्रयस्य द्वन्द्वः, 'इमेहिन्ति एभिर्वक्ष्यमाणैर्विविधैरायुधैः परस्परं वेदनामुदीरयन्तीति योगः
कि तेत्ति तद्यथा मुद्गर:-अयोधनः मुसुण्डिः-पहरणविशेषः 'करकर्य'ति क्रकचं-करपत्रं शक्ति:-त्रिशूल शाहलं-लागलं गदा-लकुटविशेषः मुशलं चक्रं कुन्तं च प्रतीतं तोमरो-बाणविशेषः शूलं प्रतीतं 'लउड'त्ति लकुट भिंडिमाला-प्रहरणविशेषः सदलो-भल्लः पहिसः-प्रहरणविशेषः 'चर्मेष्ट' चर्मवेष्टितपाषाणविशेषो दुघणोमुद्गरविशेषः मौष्टिको-मुष्टिप्रमाणः पाषाण एव असिखेटकं-असिना सह फलकं खगः-केवल एच चापंधनुः नाराच:-आयसो वाणः कणको-बाणविशेषः कल्पनी-कर्तिकाविशेषः वासी-काष्ठतक्षकोपकरणविशेषः
परशु:-कुठारविशेषः तत एतेषां द्वन्द्वः ततस्ते च ते टकतीक्ष्णा अग्रतीक्ष्णा निर्मलाश्चेति कर्मधारयः, तत-13 बस्तैरिति व्याख्येयं, तृतीयाबहुवचनलोपदर्शनादिति, अन्यैश्चेवमादिभिः अशुभैक्रियैः प्रहरणशतैरभिनन्तः
अनुबद्धतीववैरा-अविच्छिन्नोत्कटवैरभावाः परस्परं-अन्योन्यं वेदनामुदीरयन्ति, नारका एवं तिसृभ्यः नरकपृथ्वीभ्या, परतो नरकपालानां गमनाभावात्, 'तत्थे ति तत्र च परस्पराभिहननेन चेवनोदीरणेन मुद्गरमहारचूर्णितो मुसुण्ढिभिः सम्भग्नो मथितश्च-विलोडितो देहो येषां ते तथा, तथा यत्रोपपीडनेन स्फुरन्तश्च कल्पिताश्च-छिन्ना यत्रोपपीडनस्फुरत्कल्पिताः 'केइत्थति केचिदत्र-नरके सचर्मका:-चर्मणा सह विकृत्ता-उत्क्लुसाः पृथकृतचर्माण इत्यर्थः, तथा निम्मूलोल्लूनकर्णीष्ठनासिकाश्छिन्नहस्तपादाः असिक्रकचतीक्ष्णकुन्तपरशूनां प्रहारैः स्फाटिता-विदारिता येते तथा, वास्या संतक्षितान्यङ्गोपाङ्गानि येषां ते तथा, ततः पदद्वयस्य कर्म
दमकल
दीप
अनुक्रम
~44~