________________
आगम
(१०)
प्रत
सूत्रांक
[3]
–
दीप
अनुक्रम
[७]
श्रुतस्कन्ध: [१],
मूलं [३]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१०], अंग सूत्र [१०] “प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
प्रश्नव्याक
र० श्रीअ
भयदेव० वृत्तिः
॥ ९ ॥
“प्रश्नव्याकरणदशा” - अंगसूत्र - १० ( मूलं + वृत्ति:)
अध्ययनं [१]
सुमारा-जलचरविशेषाः तत एषां इन्द्रः ततश्च ते च ते बहुप्रकाराचेति कर्म्मधारयोऽतस्तान् प्रन्तीति वक्ष्यमाणेन योग:, इह च द्वितीयाबहुवचनेऽप्येकाराभावइछान्दसत्वात्, 'जलचरविहाणाकए य एवमाइ सि जल| चराणां विधानानि-भेदास्तान्येव विधानकानि तानि कृतानि विहितानि यैस्तथा तान् जलचरविधानककृतांच, इह च कशब्दलोपेन विधानशब्दस्यान्तदीर्घत्वं, एवमादीन् पाठीनादीन, तथा कुरङ्गा-मृगा रुरव:तद्विशेषाः सरभा-महाकाया आटव्यपशुविशेषाः परासरेति पर्याया ये हस्तिनमपि पृष्ठे समारोपयन्ति च मरा - आरण्यगावः संवरा - येषामनेकशाखे शृङ्गे भवतः 'हुम्भे'त्ति उरभ्रा - मेषाः शशाः शशका लोमटकाकृतयः प्रशया- द्विखुरादव्यपशुविशेषा गोणा - गावः रोहिताः- चतुष्पदविशेषाः पाठान्तरेण त एव ह्या अम्बा गजाहस्तिनः खरा-रासभाः करभा-उष्ट्राः खड्गा-येषां पार्श्वयोः पक्षवचर्माणि लम्बन्ते शृङ्गं चैकं शिरसि भवति वानरा-मर्कटाः गवया- गवाकृतयो वर्त्तुलकण्ठाः वृका-ईहामृगपर्यायाः नाखरविशेषाः शृगाला-जम्बुकाः कोला- उंदराकृतयः पाठान्तरेण कोका-नाखरविशेषाः मार्जारा-विराला 'कोलसुणग'सि महासूकरा: अथवा क्रोडा-शूकरा श्वानः- कौलेयकाः श्रीकन्दलका आवर्त्ताश्च एकखुरविशेषाः कोकंतिका| लोमटका ये रात्री को को एवं रवन्ति गोकर्णा- द्विखुरचतुष्पदविशेषा मृगा - सामान्यहरिणाः कुरङ्गादयस्तु प्रागभिहिताः शृङ्गवर्णादिविशेषणास्तद्विशेषाः सामर्थ्यादत्र गम्याः महिषाः प्रतीताः 'विग्धय'त्ति व्याघ्रा - नाखरविशेषाः छगला-अजाः द्वीपिकाः- चित्रकाभिधाना नाखर विशेषाः श्वानः- आटव्या एवं कौलेयकाः
Education Internation
For Parts Only
~21~
१ आश्रवे
वधकवध्यप्रयो
जनानि
सू० ३
॥ ९ ॥
jonary org