________________
आगम
(१०)
प्रत
सूत्रांक
[१६]
दीप
अनुक्रम
[२०]
“प्रश्नव्याकरणदशा” - अंगसूत्र - १० ( मूलं + वृत्तिः)
-
अध्ययनं [ ४ ]
श्रुतस्कन्ध: [१],
मूलं [१६]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१०] अंग सूत्र [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
लब्धाया लवणसमुद्राधिपतिं सुस्थितदेवमष्टमभक्तेनाराध्य कृष्णः समुद्रमध्येन तेन वित्तीर्णमार्गः पञ्चभिः पाण्डवैः सरथेः सहामरकङ्का राजधान्या बहिरुद्याने जगाम, सारथिप्रेषणेन पद्मनाभमादर्पितवान् सोऽपि सबलो योद्धुं निर्जगाम, पाण्डवेषु तेन पुनर्महायुद्धेन निर्मथितमानेषु कृतेषु कृष्णः स्वयं युद्धाय तेन सहोपतस्थौ, ततः केशवः पाञ्चजन्यशङ्खनादेन तत्सैन्यविभागं निर्मथितवान् त्रिभागं च शार्ङ्गगण्डीवदण्डप्रत्यञ्चाटङ्कारेण त्रिभागावशेषबले च पद्मनाभे प्राणभयानगरीप्रविष्टे कृतनरसिंहरूपेण जनार्दनेन पाददर्दरककरणतः स भग्नप्राकारगो पुराहालका पर्यस्तभवनशिखरा राजधानी कृता, ततस्तेन भयभीतेनागत्य प्रणम्य च द्रौपदी तस्य समर्पिता, स च तां पाण्डवानां समर्पितवान् तैः सहैव च स्वक्षेत्रमाजगामेति । तथा रुक्मिण्याः कृते सङ्ग्रामोऽभूत्, तथाहि - कुण्डिन्यां नगर्यो भीष्म नरपतेः पुत्रस्य रुक्मिणो नृपस्य भगिनी रुक्मिणी कन्या बभूव, इतश्च द्वारिकायां कृष्णवासुदेवस्य भार्या सत्यभामा, तद्वेदे च नारदः कदाचिदवततार, तया तु व्यग्रतया न सम्यगुपचरितः, ततः कुपितोऽसौ तां प्रति सापन्यमस्याः करोमीति विभाव्य कुण्डिनीं नगरीमु पगतः, रुक्मिण्या च प्रणतः सन् कृष्णस्य महादेवी भवेत्याशिषमवादीत्, कृष्णगुणांच तत्पुरतो व्यावर्णयन् तं प्रति तां सानुरागामकरोत्, तद्रूपं च चित्रपटे विलिख्य कृष्णस्य तदुपद तां प्रति तमपि साभिलापमकार्षीत्, ततः कृष्णो रुक्मिणं तां याचितवान्, रुक्मिणोऽपि न दत्तवान्, शिशुपालाभिधानं च महाबलं राजसूनुमानीय विवाहमारम्भितवान्, रुक्मिणीसत्या पितृष्वस्रा च कृष्णस्य रुक्मिण्यपहरणार्थी
For Parts Only
~178~