SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ आगम (१०) “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [४] ----------------------- मूलं [...१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५] श्रित्याधीतं, स हि किल त्रिपृष्ठाभिधानजनपदोपद्रवकारिणं विषमगिरिगुहायासिनं महाकेसरिणं उत्तराध रोष्ठग्रहणेन विदारयामासेति, इदं च विशेषणं द्वितीयव्याख्यायामेव घटते, प्रथमव्याख्यानपक्षे पुनरेवं पाठः, | केसिमुहविष्फाडग'त्ति तत्र केश्यभिधानः कंसकसत्को दुष्टोऽश्वस्तन्मुखं च कृष्णः कूपरप्रक्षेपेण विदारितवानिति, हप्तनागदर्पमथना इदं च कृष्णमाश्रित्याधीतं, स हि किल यमुनाहदवासिनं घोरविषं महानाग पद्मग्रहणार्थ देऽवतीर्य निर्मथितवान, यमलार्जुनभनका इदमपि तमेवाश्रित्याधीतं, स हि पितृवैरिणी वि-10 द्याधरौ रथारूढस्य गच्छतो मारणार्थ पथि विकुर्विलयमलार्जुनवृक्षरूपी सरथस्य मध्येन गच्छतभूर्णनप्रवृत्तौ हतवान , महाशकुनिपूतनारिपथः इदमपि तथैव कृष्णपितृवैरिण्योर्महाशकुनिपूतनाभिधानयोर्विद्याधरयोषितोः विकुर्वितगत्रीरूपयोः गन्त्रीसमारोपितयालावस्थकृष्णयोः कृष्णपक्षपातिदेवतया विनिपातितत्वात्, कसमुकुटमोटका इदमपि तथैव, यतः कृष्णेन मल्लयुद्धे विनिपातितचाणूरमल्लेन कंसाभिधानो मधुराराजोऽमर्यादुद्गीर्णखड्गो युयुत्सुर्मुकुटदेशे गृहीत्वा सिंहासनात् भुवि समाकृष्य विनिपातितः, तथा जरासन्धमानमथनाः इदमपि तथैव, यतः कृष्णो राजगृहनगरनायकं जरासन्धाभिधानं नवमप्रतिवासुदेवं कंसमारणप्रकुपितं महासङ्ग्रामप्रवृत्तं विनिपातितवान् , तथा 'तेहि यत्ति तैश्चातिशयवद्भिरातपत्रैर्विराजमाना इति सम्बन्धः, अविरलानि धन-18 शलाकावत्वेन समानि तुल्यशलाकतया सहितानि-संहितानि अनिम्नानि उन्नतशलाकायोगात् चन्द्रमण्डलसमप्रभाणि च शशधरविम्बवत् प्रभान्ति-वृत्ततया शोभन्ते यानि तानि तथा तैः, सूरमरीचय:-आदित्यकि दीप अनक्रम [१९]] SAREaratun ~152~
SR No.004110
Book TitleAagam 10 PRASHNA VYAKARANAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size76 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy