SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [१५] दीप अनुक्रम [१९] “प्रश्नव्याकरणदशा” श्रुतस्कन्ध: [१], अध्ययनं [४] मूलं [... १५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः Jan Educator - अंगसूत्र-१० (मूलं+वृत्तिः) तस्य, तथा षडिधस्य कालस्य ऋतुष्ट्ररूपस्य ये गुणाः कार्याणि तैः क्रमेण परिपाठ्या युक्तं सङ्गतं यत्तत्तथा | तस्य कस्येत्याह- अर्द्ध भरतस्य भरतार्द्धस्य, किं ? - स्वामिका-नाथाः, तथा धीराणां सतां या कीर्त्तिस्तत्प्रधानाः | पुरुषा धीरकीर्त्तिपुरुषाः ओघेन- प्रवाहेणाविच्छिन्नं बलं प्राणो येषां ते तथा, पुरुषान्तरबलान्यतिक्रान्ता अतिबलाः, न निहता अनिहता अपराजितान्-अपरिभूतान् शत्रून् मर्दयन्ति ये ते तथा, अत एव रिपुसहस्रमानमथना इति व्यक्तं, सानुक्रोशाः सद्या अमत्सरिणः- परगुणग्राहिणः अचपलाः- कायिकादिचापल्यरहिताः अचण्डा:- कारणविकलकोपविकलाः मितः परिमितो मञ्जुलो-मधुरः प्रलापो जल्पो येषां ते तथा हसितं गम्भीरमनहासं मधुरं च भणितं येषां ते तथा, पाठान्तरेण मधुरपरिपूर्णसत्यवचनाः, अभ्युपगतवत्सला इति प्रतीतं, 'सरपण 'त्ति शरणदायकत्वात् शरण्याः, तथा लक्षणं- पुरुषलक्षणशास्त्राभिहितं यथा-"अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं खरे चाज्ञा सर्व सत्त्वे प्रतिष्ठितम् ॥ १ ॥" इत्यादि, मानोन्मानादिकं वक्ष्यमाणं व्यञ्जनं-तिलकमपादि तयोर्यो गुणः-प्रशस्तत्वं तेनोपेता ये ते तथा, लक्षणव्यञ्जनस्वरूपमिदं - " माणुम्माणपमाणादि लक्खणं वंजणं तु मसमाई । सहजं च लक्खणं वंजणं तु पच्छा समुपणं ॥ १ ॥” [ मानोन्मानप्रमाणादि लक्षणं व्यञ्जनं तु भषादि । सहर्ज वा लक्षणं व्यञ्जनं तु पश्चात् समुत्पन्नं ॥ १ ॥ ] इति, तथा मानोन्मानप्रमाणैः प्रतिपूर्णानि सुजातानि सर्वाण्यङ्गानि अवयवा यत्र तदेवंविधं सुन्दरम- शरीरं येषां ते तथा, तत्र मानं-जलद्रोणप्रमाणता, सा चैवं-जलभृतकुण्डे प्रमातव्ये पुरुषे उपवेशिते For Parts Only ~150~ jonary.org
SR No.004110
Book TitleAagam 10 PRASHNA VYAKARANAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size76 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy