________________
आगम
(१०)
प्रत
सूत्रांक
[१२]
दीप
अनुक्रम
[१६]
“प्रश्नव्याकरणदशा” - अंगसूत्र - १० ( मूलं + वृत्तिः)
-
अध्ययनं [३]
श्रुतस्कन्ध: [१],
मूलं [१२]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१०] अंग सूत्र [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
तथा ताभ्यां विहेव्यमाना इति प्रकृतं, अथवा 'स्फुरदुरःकटका' इह प्रथमा बहुवचनलोपो दृश्यस्ततश्च मोट नाब्रेडनाभ्यामित्येतदुत्तरत्र योज्यते, तथा बद्धाः सन्तो निःश्वसन्तो निःश्वासान् विमुञ्चन्तः शीर्षावेष्टकश्ववर्धादिना शिरोवेष्टनं 'करुयाल 'त्ति कय:- जङ्घयोदरो-दारणं ज्वालो वा ज्वालनं यः स तथा पाठान्तरेण 'उरुयावल'न्ति ऊरुकयोरावलनं ऊरुकावलः चप्पडकानां-काष्ठयन्त्रविशेषाणां सन्धिषु-जानुकूर्परादिषु बन्धनं चर्पटकसन्धिबन्धनं तच तप्तानां शलाकानां - कीलरूपाणां शूचीनां च लक्ष्णाग्राणां यान्याकोटनानि-कुनेनाङ्गे प्रवेशनानि, तथा तानि चेति द्वन्द्वोऽतस्तानि प्राप्यमाणा इति सम्बन्धः, तक्षणानि च-वास्था काष्ठस्येव विमाननानि च- कदर्थनानि तानि च तथा क्षाराणि-तिलक्षारादीनि कटुकानि-मरीचादीनि तिक्तानि निम्बादीनि तैर्यत् 'नावण'ति तस्य दानं तदादीनि यानि यातनाकारणशतानि - कदर्थना हेतुशतानि तानि बहुकानि प्राप्यमाणाः, तथा उरसि वक्षसि 'खोडित्ति महाकाष्ठं तस्याः दत्ताया- वितीर्णाया निवेशिताया इत्यर्थः यद् गाढप्रेरणं तेनास्थिकानि हड्डानि सम्भनानि 'सपांसुलिगति सपार्श्वाथीनि येषां ते तथा, गल इव-बडिशमिव घातकत्वेन यः स गलः स चासौ कालकलोहदण्डश्च - कालायसयष्टि: तेन उरसि वक्षसि उदरे च जठरे वस्ती च गुद्यदेशे पृष्ठौ च पृष्ठे परिपीडिता ये ते तथा, 'मच्छंत'त्ति मध्यमानं हृदयं येषां ते तथा, इह च थकारस्य छकारादेशः छान्दसत्वात्, यथा 'पुण्णस्स कच्छ' इत्यत्र पूर्णस्य कथ्यत इति, ते च सचूर्णिताङ्गोपाङ्गाश्चेति समासः, आज्ञतिकिङ्करैः- यथादेशकारिकिंकुर्वाणैः केचित् केचन
For Parts Only
~116~
inerary org