________________
आगम
(०७)
“उपासकदशा” - अंगसूत्र-७ (मूलं+वृत्तिः ) अध्ययन [६],
---- मूलं [३५-३६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [ob], अंग सूत्र - [०७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३५-३६]
दीप अनुक्रम [३७-३८]
8. अथ षष्ठे किमपि लिख्यते-'धम्मपण्णत्तित्ति श्रुतधर्मप्ररूपणा दर्शनं मतं सिद्धान्त इत्यर्थः, उत्थान-उपविष्टः सन्छ
यीभवति कर्म-गमनादिकं बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकारः-पुरुषत्वाभिमानः पराक्रमः स एव सम्पादित - स्वप्रयोजनः, 'इति'उपदर्शने 'वा' विकल्पे, नास्त्येतदुत्थानादि जीवानां, एतस्य पुरुषार्थाप्रसाधकत्वात् , तदसाधकत्वं च पुरुषकारसद्भावेऽपि पुरुषार्थसिद्धयनुपलम्भात्, एवं च नियताः सर्वभावाः-पैर्यथा भवितव्यं ते तथैव भवन्ति, न पुरुषकारवलादन्यथा कर्तुं | शक्यन्ते इति, आह च-"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने,
नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥१॥" तथा "न हि भवति यन्त्र भाव्यं भवति च भाव्यं विनाऽपि यत्नेन । करतलगतमपि नश्यति कायस्य तु भवितव्यता नास्ति।।२।।" इति 'मङ्गुली'त्ति असुन्दरा धर्मप्रज्ञप्तिः श्रुतधर्मप्ररूपणा, किंस्वरूपाऽसावित्याह-अस्तीत्यादि,अनि
यताः सर्वे भावाः-उत्थानादेर्भवन्ति तदभावान्न भवन्तीतिकृत्वेत्येवंस्वरूपा, ततोऽसौ कुण्डकोलिकः तं देवमेवमवादीत-यदि मोशाल| कस्य सुन्दरो धर्मो नास्ति कर्मादीत्यतो नियताः सर्वभावा इत्येवरूपो मङ्गुलश्च महावीरधर्मः अस्ति कर्मादीत्यनियताः सर्व
भावा इत्येवंस्वरूपः, तन्मतमनूध कुण्डकोलिकस्तन्मतदूषणाय विकल्पद्वयं कुर्वनाह- तुमे णमित्यादि, पूर्ववाक्ये का यदीति पदोपादानादेतस्य वाक्यस्यादौ तदेति पदं द्रष्टव्यं इति, त्वयाऽयं दिव्यो देवादिगुणः केन हेतुना लब्धः? किमुत्थानादिना ।
'उदाहु' त्ति आहोश्चित् अनुत्थानादिना ?, तपोब्रह्मचर्यादीनामकरणेनेति भावः, यद्युत्थानादेरभावेनेति पक्षो गोशालकमताश्रितदावाद भवतः तदा येषां जीवानां नास्त्युत्थानादि-तपश्चरणकरणमित्यर्थः 'ते' इति जीवाः किं न देवाः, पृच्छतः अयमभिप्राय:
यथा त्वं पुरुषकारं विना देवः संवृत्तः स्वकीयाभ्युपगमतः एवं सर्वजीवा ये उत्थानादिवर्जितास्ते देवाः प्रामुवन्ति, न चैतदेव
Pranaamsamucom
कुंडकोलिक-श्रमणोपासक: एवं मिथ्यादृष्टि: देवकृत: मिथ्यात्व प्रेरणा
~ 78~