SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ आगम (०७) “उपासकदशा” - अंगसूत्र-७ (मूलं+वृत्तिः ) अध्ययन [१], ------- मूलं [७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०७], अंग सूत्र - [०७] "उपासकदशा” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक ७ि) दीप दवाग्नेः-वनाग्नेर्दान-वितरणं क्षेत्रादिशोधननिमित्तं दवाग्निदानमिति १३, 'सरोन्हदतडागपरिशोषणता' तत्र सरः-स्वभावनिपन्ननदो नद्यादीनां निम्नतरः प्रदेशः तडाग-खननसम्पन्नमुत्तानविस्तीर्णजलस्थानं एतेषां शोषण गोधूमादीनां वपनार्थ१४, 'असतीजनपोषणता' असतीजनस्य-दासीजनस्य पोषणं तदाटिकोपजीवनाथ यत्तत् तथा,एक्मन्यदपि क्रूरकर्मकारिणः पाणिनः पोषणमसतीजनपोषणमेवेति१५ । 'कन्दप्पेति कन्दर्पः-कामस्तद्धेतुर्विशिष्टो वाक्मयोगोऽपि कन्दर्प उच्यते, रागोद्रेका महासमिनं मोहोदीपक नर्मेति भावः, अयं चातिचारः प्रमादाचरितलक्षणानर्थदण्डभेदव्रतस्य सहसाकारादिनेति १, 'कुकुइए' ति कौत्कुच्यम् अनेकप्रकारा मुखनयनादिविकारपूर्विका परिहासादिजनिका भाण्डानामिव विडम्बनक्रिया, अयमपि तथैव २, मोहरिए' तिमौखर्य धाष्टप्रायमसत्या• सम्बद्धमलापित्वमुच्यते, अयमतिचारः प्रमादब्रतस्य पापकर्मोपदेशव्रतस्य वाऽनाभोगादिनैव ३, 'संजुत्ताहिगरणे' ति संयुक्तम् अर्थकियाकरणक्षममधिकरणम्-उदूखलमुशलादि, तदतिचारहेतुत्वादतिचारो हिंस्रपदाननिवृत्तिविषयः, यतोऽसौ साक्षायद्यपि हिंस्रं शकटादिकं न समर्पयति परेषां तथापि तेन संयुक्तेन तेऽयाचित्वाऽप्यर्थक्रियां कुर्वन्ति, विसंयुक्त तु तस्मिंस्ते स्वत एव विनिवारिता भवन्ति ४, 'उवभोगपरिभोगाइरित्ते' त्ति उपभोगपरिभोगविषयभूतानि यानि द्रव्याणि स्नानप्रक्रमे उष्णोदकोद्वर्तनकामलकादीनि भोजनमत्रमे अशनपानादीनि तेषु यदतिरिक्तम्-अधिकमात्मादीनामर्थक्रियासिद्धावप्यवशिष्यते तदुपभोगपारभोगातिरिक्तं, तदुपचारादतिचारः, तेन ह्यात्मोपभोगातिरिक्तेन परेषां स्नानभोजनादिभिरनर्थदण्डो भवति, अयं च प्रमादब्रतस्यैवातिचार इति ५ । उक्ता गुणवतातिचाराः, अथ शिक्षावतानां तानाह-'सामाइयस्स' ति समो-रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत्पश्यति तस्य आय:प्रतिक्षणमपूर्वापूर्वज्ञानदर्शनचारित्रपर्यायाणां निरुपमसुखहेतुभूतानामधाकृतचिन्तामणिकल्पद्रुमोपमानां लाभः समायः सः प्रयो अनुक्रम Saintaintingana funaturanorm | सम्यक्त्व एवं द्वादश व्रतानां अतिचार-वर्णनं ~ 22 ~
SR No.004107
Book TitleAagam 07 UPASAK DASHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages113
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy