________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [१८-२१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१८-२१]
दीप अनुक्रम [२५-३०]
यथोचिता 'स्थितिपतितां स्थिती-कुलमर्यादायां पतिता-अन्तर्भूता या प्रक्रिया पुत्रजन्मोत्सव संबन्धिनी सा स्थितिपतिता || ता, वाचनान्तरे 'दसदिवसियं ठियपडियन्ति दशाहिकमहिमानमित्यर्थः कुरुत कारयत चा, 'सपर्हिति शतपरिमाणे, दायेहि ति दानैः, वाचनान्तरे शतिकांश्चेत्यादि, यागान्-देवपूजाः दायान-दानानि भागान् लब्धद्रव्यविभागानिति, प्रथमे दिवसे जातकर्म-प्रसवकर्म नालच्छेदननिखननादिकं द्वितीयदिने जागरिका-रात्रिजागरणं तृतीये दिवसे चन्द्रसूर्यदर्शनं उत्सवविशेष एत इति, पाठान्तरे तु प्रथमदिवसे स्थितिपतितां तृतीये चंद्रसूर्यदर्शनिको पाठे जागरिका 'निवत्ते असुइ-16 जायकम्मकरणे'त्ति निवृत्ते-अतिक्रान्ते-अशुचीनां जातकर्मणा करणे 'निबत्ते सुइजायकम्मकरणे ति वा पाठान्तरं,8 तत्र निर्वृत्ते-कृते शुचीनां जातकर्मणा करणे 'वारसाहे दिवसेति द्वादशाख्ये दिवसे इत्यर्थः, अथवा द्वादशानामहां समा-18 हारो द्वादशाहं तस्य दिवसो येन द्वादशाहः पूर्यते तत्र तथा, मित्राणि-सुहृदः ज्ञातयो-मातापितृभ्रात्रादयः निजका:खकीयाः पुत्रादयः खजनाः-पितृल्यादयः संवन्धिन:-शुरपुत्रश्वशुरादयः परिजनो-दासीदासादिः पलं च-सैन्यं च गणनायकादयस्तु प्रागभिहिताः, 'महइमहालइति अतिमहति, आस्वादयन्तावास्वादनीय, परिभाजयन्ती अन्येभ्यो यच्छन्तौ । मातापितराविति प्रक्रमः, 'जेमिय'त्ति जेमिती भुक्तवन्तौ, 'भुत्तुत्तरत्ति भुक्तोत्तर-भुक्तोत्तरकालं 'आगय'ति आगताप-18] वेशनस्थाने इति गम्यते, 'समाणे ति सन्तो, किंभूतौ भूखेत्याह -आचान्तौ शुद्धोदकयोगेन चोक्षौ लेपसिक्थाद्यपनयनेन अत एव परमशुचिभूताविति, 'अपमेयास्वेति इदमेतद्रूपं गौणं कोऽर्थो ?-गुणनिष्पन्न नामधेयं-प्रशस्तं नाम मेघ इति । क्षीरघान्या-स्तन्यदायिन्या मण्डनधान्या-मण्डिकया मज्जनधान्या-सापिकया क्रीडनधात्र्या-क्रीडनकारिण्या अवधात्र्या
~84~