________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [१४-१७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [१४-१७] +[१४-R +१५-R]
मध्यकारेण' मध्यभागेन 'बीइवयमाणे ति व्यतिव्रजन् गच्छन् उद्योतयन् विमलया प्रभया जीवलोकं 'ओवयइत्ति अवपतति अवतरति, अन्तरिक्षप्रतिपन्न:-आकाशस्थः दशार्द्धवर्णानि सकिङ्किणीकानि-क्षुद्रघण्टिकोपेतानि एकस्ताबदेष गमः पाठः, अन्योऽपि द्वितीयो गमो-वाचनाविशेषः पुस्तकान्तरेषु दृश्यते, 'ताए' तया उत्कृष्टया गत्या त्वरितया-आकुलया न खाभावि| क्या आन्तराकृततोऽप्येषा भवत्यत आह-चपलया कायतोऽपि चण्डया-रीद्रयाऽत्युत्कर्षयोगेन सिंहया-तदादास्थैर्येण उद्धतया-दपोतिशयेन जयिन्या विपक्षजेतृलेन छेकया-निपुणया दिव्यया-देवगत्या, अयं च द्वितीयो गमो जीवाभिगम| सूत्रवृत्यनुसारेण लिखितः, "किं करेमिति किमहं करोमि भवदभिप्रेतं कार्य किं वा 'दलयामिति तुभ्यं ददामि, कि वा
प्रयच्छामि भवत्संगतायान्यस्सै, किंवा ते हृदयेप्सित-मनोवाञ्छितं वर्तत इति प्रश्नः, 'सुनिव्वुयवीसत्थेत्ति सष्ठ निर्धतः| स्वस्थात्मा विश्वस्तो-विश्वासवान् निरुत्सुको वा यः स तथा, 'तातो चि हे तात! । 'परिकप्पेह'त्ति सन्नाहवन्तं कुरुत 'अंतो|अंतेउरंसिति अन्तरन्तःपुरस्थ "महयाभचडगरवंदपरिखित्त"त्ति महाभटानां यबटकरप्रधान-विच्छ प्रधानं वृन्द।। तेन संपरिक्षिप्ता, वैभारगिरेः कटतदानि-तदेकदेशतटानि पादाच-तदासबलघुपर्वतास्तेषां यन्मूलं तत्र, तथा आरामेषु च | आरमन्ति येषु माधवीलतागृहादिषु दम्पत्या(दी)नि ते आरामास्तेषु पुष्पादिमद्वृक्षसंकुलानि उत्सवादी बहुजनभोग्यानि उद्या|नानि तेषु च तथा सामान्यवृक्षवृन्दयुक्तानि नगरासन्नानि काननानि तेषु च नगरविप्रकृष्टानि वनानि तेषु च तथा वनखण्डेपुच-एकजातीयवृक्षसमूहेषु वृक्षेषु चैकैकेषु गुच्छेषु च-वृन्ताकीप्रभृतिषु गुल्मेषु च-वंशजालीप्रभृतिषु लतासु-च-सहकारलतादिषु बहीषु च-नागवल्लयादिषु च कन्दरासु च-गुहासु दरीषु च-ऋगालादिउत्कीर्णभूमिविशेषेषु 'धुंढीसु यत्ति |
दीप अनुक्रम [१९-२४]
~ 74~